पञ्चशत् 1 #
प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहा॑ ऽपा॒नाय॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॑ संता॒नेभ्यः॒ स्वाहा॒ परि॑संतानेभ्यः॒ स्वाहा॒ पर्व॑भ्यः॒ स्वाहा॑ स॒धांने᳚भ्यः॒ स्वाहा॒ शरी॑रेभ्यः॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा॒ दक्षि॑णाभ्यः॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
प्रा॒णायेति॑ प्र - अ॒नाय॑ । स्वाहा᳚ । व्या॒नायेति॑ वि - अ॒नाय॑ । स्वाहा᳚ । अ॒पा॒नायेत्य॑प - अ॒नाय॑ । स्वाहा᳚ । स्नाव॑भ्य॒ इति॒ स्नाव॑ - भ्यः॒ । स्वाहा᳚ । स॒न्ता॒नेभ्य॒ इति॑ सं - ता॒नेभ्यः॑ । स्वाहा᳚ । परि॑सन्तानेभ्य॒ इति॒ परि॑ - स॒न्ता॒ने॒भ्यः॒ । स्वाहा᳚ । पर्व॑भ्य॒ इति॒ पर्व॑-भ्यः॒ । स्वाहा᳚ । स॒धांने᳚भ्य॒ इति॑ सं - धाने᳚भ्यः । स्वाहा᳚ । शरी॑रेभ्यः । स्वाहा᳚ । य॒ज्ञाय॑ । स्वाहा᳚ । दक्षि॑णाभ्यः । स्वाहा᳚ । सु॒व॒र्गायेति॑ सुवः - गाय॑ । स्वाहा᳚ । लो॒काय॑ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ नक्तं होमेष्वेव सन्ततिहोमाः - प्राणाय स्वाहा व्यानाय स्वाहा इत्याद्याः । प्राणादयश्शब्दा निगदसिद्धाः ॥
इति सप्तमे चतुर्थे एकविंशोनुवाकः ॥