अनुवाकः 10 TS 7.4.10

(A10)

(त - एका॒न्नप॑ञ्चा॒शच्च॑)

अनुवाकः 10 - Complete Audio

TS 7.4.10 - स्वरानुगामी

0:00 0:00
PS1.1 ब्र॒ह्म॒वा॒दिनो॑ वदन्त्यतिरा॒त्रः प॑र॒मो य॑ज्ञ्क्रतू॒नां
PS1.2 कस्मा॒त् तं प्र॑थ॒ममुप॑ य॒न्तीत्ये॒तद्वा
PS1.3 अ॑ग्निष्टो॒मं प्र॑थ॒ममुप॑ य॒न्त्यथो॒क्थ्य॑मथ॑ षोड॒शिन॒-मथा॑तिरा॒त्र-म॑नुपू॒र्वमे॒वैतद्-य॑ज्ञ्क्र॒तूनु॒पेत्य॒
PS1.4 ताना॒लभ्य॑ परि॒गृह्य॒ सोम॑मे॒वैतत् पिब॑न्त
PS1.5 आसते॒ ज्योति॑ष्टोमं प्रथ॒ममुप॑ यन्ति॒
PS1.6 ज्योति॑ष्टोमो॒ वै स्तोमा॑नां॒ मुखं॑
PS1.7 मुख॒त ए॒व स्तोमा॒न् प्र
PS1.8 यु॑ञ्जते॒ ते - [
PS1.9 ]
PS2.1 सꣳस्तु॑ता वि॒राज॑म॒भि सं प॑द्यन्ते॒
PS2.2 द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒
PS2.3 गौरति॑रिक्त॒ एक॒याऽऽयु॑रू॒नः सु॑व॒र्गो वै
PS2.4 लो॒को ज्योति॒रूर्ग्-वि॒राट्-थ्सु॑व॒र्गमे॒व तेन॑ लो॒कं
PS2.5 ॅय॑न्ति रथन्त॒रं दिवा॒ भव॑ति
PS2.6 रथन्त॒रं नक्त॒मित्या॑हु-र्ब्रह्मवा॒दिनः॒ केन॒ तदजा॒मीति॑
PS2.7 सौभ॒रं तृ॑तीयसव॒ने ब्र॑ह्मसा॒मं बृ॒हत्
PS2.8 तन्म॑द्ध्य॒तो द॑धति॒ विधृ॑त्यै॒ तेनाजा॑मि

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.4.10.1 TS 7.4.10.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्त्यतिरा॒त्रः प॑र॒मो य॑ज्ञ्क्रतू॒नां कस्मा॒त् तं प्र॑थ॒ममुप॑ य॒न्तीत्ये॒तद्वा अ॑ग्निष्टो॒मं प्र॑थ॒ममुप॑ य॒न्त्यथो॒क्थ्य॑मथ॑ षोड॒शिन॒-मथा॑तिरा॒त्र-म॑नुपू॒र्वमे॒वैतद्-य॑ज्ञ्क्र॒तूनु॒पेत्य॒ ताना॒लभ्य॑ परि॒गृह्य॒ सोम॑मे॒वैतत् पिब॑न्त आसते॒ ज्योति॑ष्टोमं प्रथ॒ममुप॑ यन्ति॒ ज्योति॑ष्टोमो॒ वै स्तोमा॑नां॒ मुखं॑ मुख॒त ए॒व स्तोमा॒न् प्र यु॑ञ्जते॒ ते - [ ]
पदपाठः (Word-by-word)
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । अ॒ति॒रा॒त्र इत्य॑ति-रा॒त्रः । प॒र॒मः । य॒ज्ञ्॒क्र॒तू॒नामिति॑ यज्ञ्-क्र॒तू॒नाम् । कस्मा᳚त् । तम् । प्र॒थ॒मम् । उपेति॑ । य॒न्ति॒ । इति॑ । ए॒तत् । वै । अ॒ग्नि॒ष्टो॒ममित्य॑ग्नि - स्तो॒मम् । प्र॒थ॒मम् । उपेति॑ । य॒न्ति॒ । अथ॑ । उ॒क्थ्य᳚म् । अथ॑ । षो॒ड॒शिन᳚म् । अथ॑ । अ॒ति॒रा॒त्रमित्य॑ति - रा॒त्रम् । अ॒नु॒पू॒र्वमित्य॑नु - पू॒र्वम् । ए॒व । ए॒तत् । य॒ज्ञ्॒क्र॒तूनिति॑ यज्ञ् - क्र॒तून् । उ॒पेत्येत्यु॑प - इत्य॑ । तान् । आ॒लभ्येत्या᳚ - लभ्य॑ । प॒रि॒गृह्येति॑ परि - गृह्य॑ । सोम᳚म् । ए॒व । ए॒तत् । पिब॑न्तः । आ॒स॒ते॒ । ज्योति॑ष्टोम॒मिति॒ ज्योतिः॑ - स्तो॒म॒म् । प्र॒थ॒मम् । उपेति॑ । य॒न्ति॒ । ज्योति॑ष्टोम॒ इति॒ ज्योतिः॑ - स्तो॒मः॒ । वै । स्तोमा॑नाम् । मुख᳚म् । मु॒ख॒तः । ए॒व । स्तोमान्॑ । प्रेति॑ । यु॒ञ्ज॒ते॒ । ते ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अतः परमह्नां कॢप्तिः - ब्रह्मवादिन इत्यादिः ॥ यज्ञक्रतवस्सोमयागाः । अतिरात्रस्तेषां परमः उत्तमः अन्त्यां संस्था । तत् तस्मात्कारणात् तं प्रथममुपयन्तीति ब्रह्मवादिनः पर्यनुयोगं वदन्ति । अथ समाधत्ते - एतद्वा इत्यादि । यदेतदतिरात्रं प्रथमं प्रायणीयं उपयन्ति एतत्खल्वग्निष्टोमादीन् चतुरो यज्ञक्रतून् संवत्सरस्य मुखे अनुपूर्वमनुक्रमेण उपेत्य तानालभ्य पृथक्पृथगारभ्य परिगृह्य समाप्यते सोमं पिबन्तः संवत्सरायासते सत्रिणः । ज्योतिष्टोममित्यादि । तस्मात्सर्वयज्ञक्रत्वर्थं ज्योतिष्टोममेवातिरात्रं प्रथममुपयन्ति । ज्योतिष्टोमः स्तोमानां स्तोमवतां मुखम् । तस्मान्मुखत एवारभ्य सर्वान् स्तोमान् प्रयुञ्जते ॥
2 अत्र ज्योतिर्गौरायुरिति त्रितयावृत्तिज्जन्मा प्रायः सकलस्संवत्सरः । तत्र केन विशेषणेन तुल्यप्रभावानां ज्योतिरेव सत्रस्य प्रथमं युज्यते न गोआयुषी प्रति पर्यनुयोगावसरे ज्योतिषो गुणविशेषवत्तां इतरयोश्च तदभावं दर्शयितुमाह - ते संस्तुतो इत्यादि ॥ ते अनन्तरोक्ता ज्योतिरादयः त्रयः संस्तुता विराजमभिसम्पद्यन्ते विराट् दशाक्षरा तत्संपत्त्या संपद्यन्ते दशकास्संपूर्णा इव भवन्ति । ज्योतिरतिरात्रस्य सप्तत्यधिकशतत्रयं स्तोत्रीया इति कृत्वा । 'नातिरात्रे षोडशिनं गृह्णाति' इत्यस्मिन् पक्षे इदमुच्यते । ग्रहगपक्षे तु 'अथ षोडशिनं' इति पूर्वोक्तं वेदितव्यम् । विराट्संपत्तिलक्षणं गुणविशेषं ज्योतिषः प्रतिपाद्य इदानीं गोआयुषोस्तदभावं प्रदर्शयति - द्वे चेति । द्वे ऋचौ अतिरिच्येते अतिक्रम्य वर्तेते । विराट्संपत्तिविघातोतिकमः । किं ज्योतिष्येव नैवं भवितुमर्हतीति न ह्येकत्र सम्भवतीति विराजमभिसम्पद्यन्ते । द्वे चर्चावितिरिच्येते इति । तस्मात्सामर्थ्यात् गोआयुषोरिति वेदितव्यम् । यद्वा - द्वे गोआयुषी ऋचावतिरिच्येते डति गोआयुषोर्व्यतिरेकः कथ्यते । तमेवातिरेकं दर्शयति - एकयेत्यादि । गौरेकयर्चा अतिरिक्तः विराजं अतिक्रम्य वर्तते । आयुरेकया विराज ऊनो वर्तते । दर्शितौ चैतयोरूनातिरेकावाचोर्येण - गौः खलु पञ्चदशो बहिष्पवमानः त्रिवृन्त्याज्यानि सप्तदश माध्यन्दिनं सवनं संर्वैकविंश तृतीयसवनं सोक्थ्यमिति । एवमेकचत्वारिंशदधिकं शतद्वयं गोः स्तोत्रीयाः । अथान्यस्त्रिवृत् बहिष्पवमानं पञ्चदशाज्यानि सर्वसप्तदशं माध्यन्दिनं सर्वैकविंशं तृतीयसवनं सोक्थ्यमिति । एवमनयोरेकोनषष्ट्यधिकं शतद्वयमिति । तस्मादनयोरप्राधान्यं विराडभिसंपत्त्या ज्योतिष एव प्राथम्यमिति ॥
3 पुनरपि ज्योतिरेव स्तूयते - सुवर्गो वा इत्यादि ॥ गतम् । किं बहुना सुवर्ग एव लोको ज्योतिः । तत्साधनत्वात्ताच्छब्द्यम् । ऊर्गन्नं विराट् । तां चाभिसम्पद्यते ज्योतिः तस्मात्तेन ज्योतिषा स्वर्गमेव गच्छन्ति । अन्नस्य स्वर्गपर्यायत्वात्पृथगुपादानम् ॥
4 रथन्तरमित्यादि ॥ अतिरात्रे दिवासवनेषु रथन्तरमेव साम भवति । नक्तमपि रथन्तरमेव प्रवर्तते । त्रिवृद्रथन्तरसन्धिरिति च सन्ध्यभिप्रायम् । एवमस्य रथन्तरैकसामतां अपश्यन्तो ब्रह्मवादिन आहुः - केन तदजामित्वं आलस्याभावः केन तत्र सम्पद्यते इति । तत्रोत्तरं ब्रूयात् - सौभरमित्यादि । तृतीयसवने उक्थ्यपर्याये सौभरो नाम ब्रह्मणस्सामास्ति । 'अनसन्तान्नपुंसकात्' इति अच् समासान्तः । बृहत् बृहता गेयः तन्मध्यतः मध्यमे उक्थ्ये विदधाति विधृत्यै विधारणार्थं उक्थ्यानाम् । तेनेत्यादि । तेन इत्थं क्रियमाणेन अजामि अजामित्वमपि सम्पद्यते इति ॥
इति सप्तमे चतुर्थे दशमोनुवाकः ॥
पञ्चशत् 2 #
TS 7.4.10.2 TS 7.4.10.2
सꣳस्तु॑ता वि॒राज॑म॒भि सं प॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒याऽऽयु॑रू॒नः सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्-वि॒राट्-थ्सु॑व॒र्गमे॒व तेन॑ लो॒कं ॅय॑न्ति रथन्त॒रं दिवा॒ भव॑ति रथन्त॒रं नक्त॒मित्या॑हु-र्ब्रह्मवा॒दिनः॒ केन॒ तदजा॒मीति॑ सौभ॒रं तृ॑तीयसव॒ने ब्र॑ह्मसा॒मं बृ॒हत् तन्म॑द्ध्य॒तो द॑धति॒ विधृ॑त्यै॒ तेनाजा॑मि ॥
पदपाठः (Word-by-word)
सꣳस्तु॑ता॒ इति॒ सं - स्तु॒ताः॒ । वि॒राज॒मिति॑ वि - राज᳚म् । अ॒भि । समिति॑ । प॒द्य॒न्ते॒ । द्वे इति॑ । च॒ । ऋचौ᳚ । अतीति॑ । रि॒च्ये॒ते॒ इति॑ । एक॑या । गौः । अति॑रिक्त॒ इत्यति॑ - रि॒क्तः॒ । एक॑या । आयुः॑ । ऊ॒नः । सु॒व॒र्ग इति॑ सुवः - गः । वै । लो॒कः । ज्योतिः॑ । ऊर्क् । वि॒राडिति॑ वि - राट् । सु॒व॒र्गमिति॑ सुवः-गम् । ए॒व । तेन॑ । लो॒कम् । य॒न्ति॒ । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । दिवा᳚ । भव॑ति । र॒थ॒न्त॒रमिति॑ रथं-त॒रम् । नक्त᳚म् । इति॑ । आ॒हुः॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । केन॑ । तत् । अजा॑मि । इति॑ । सौ॒भ॒रम् । तृ॒ती॒य॒स॒व॒न इति॑ तृतीय - स॒व॒ने । ब्र॒ह्म॒सा॒ममिति॑ ब्रह्म - सा॒मम् । बृ॒हत् । तन् । म॒द्ध्य॒तः । द॒ध॒ति॒ । विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । तेन॑ । अजा॑मि ॥
पदसंख्या: 49