पञ्चशत् 1 #
ऋ॒क्षा वा इ॒यम॑लो॒मका॑ऽऽसी॒थ् साऽका॑मय॒तौष॑धीभि॒-र्वन॒स्पति॑भिः॒ प्र जा॑ये॒येति॒ सैतास्त्रिꣳ॒॒शतꣳ॒॒ रात्री॑रपश्य॒त् ततो॒ वा इ॒यमोष॑धीभि॒-र्वन॒स्पति॑भिः॒ प्राजा॑यत॒ ये प्र॒जाका॑माः प॒शुका॑माः॒ स्युस्त ए॒ता आ॑सीर॒न् प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभि॑रि॒यं ॅवा अ॑क्षुद्ध्य॒थ् सैतां ॅवि॒राज॑मपश्य॒त् तामा॒त्मन् धि॒त्वाऽन्नाद्य॒मवा॑ रु॒न्धौष॑धी॒ - [ ]
पदपाठः (Word-by-word)
ऋ॒क्षा । वा । इ॒यम् । अ॒लो॒मका᳚ । आ॒सी॒त् । सा । अ॒का॒म॒य॒त॒ । ओष॑धीभि॒रित्योष॑धि-भिः॒ । वन॒स्पति॑भि॒रिति॒ वन॒स्पति॑-भिः॒ । प्रेति॑ । जा॒ये॒य॒ । इति॑ । सा । ए॒ताः । त्रिꣳ॒॒शत᳚म् । रात्रीः᳚ । अ॒प॒श्य॒त् । ततः॑ । वै । इ॒यम् । ओष॑धीभि॒रित्योष॑धि - भिः॒ । वन॒स्पति॑भि॒रिति॒ वन॒स्पति॑ -भिः॒ । प्रेति॑ । अ॒जा॒य॒त॒ । ये । प्र॒जाका॑मा॒ इति॑ प्र॒जा - का॒माः॒ । प॒शुका॑मा॒ इति॑ प॒शु - का॒माः॒ । स्युः । ते । ए॒ताः । आ॒सी॒र॒न्न् । प्रेति॑ । ए॒व । जा॒य॒न्ते॒ । प्र॒जयेति॑ प्र-जया᳚ । प॒शुभि॒रिति॑ प॒शु-भिः॒ । इ॒यम् । वै । अ॒क्षु॒द्ध्य॒त् । सा । ए॒ताम् । वि॒राज॒मिति॑ वि - राज᳚म् । अ॒प॒श्य॒त् । ताम् । आ॒त्मन्न् । धि॒त्वा । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । अवेति॑ । अ॒रु॒न्ध॒ । ओष॑धीः ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ त्रिंशद्रात्र आरभ्यते - ऋक्षा वा इत्यादि ॥ तृणादिरहिता स्थली ऋक्षा, इयं पृथिवी पूर्वं अलोमका आसीत् वृक्षाद्यभावात् । पावकादित्वादित्वाभावः । गतमन्यत् । आसीरन्निति । एतास्त्रिंशतं रात्रीरासीरन् ॥
2 इयं वा इत्यादि ॥ इयं पृथिवी पूर्वमक्षुध्यत् क्षुत्पीडिताऽभवत् । सा त्रिंशद्रात्रेण एतां विराजमन्नं अपश्यत् । ततस्ता तामात्मनि स्थापयित्वा अन्नाद्यं अन्नादनसामर्थ्यं ओषध्यादींश्चावारुन्धत । ततस्तदवरोधेन अवर्धत पृथिवी । ततो जेमानं जयं महिमानं महत्त्वं चागच्छत् । जयतेर्महतेश्च औणादिको मनिन्प्रत्ययः । यद्वा - जेतृमहितृशब्दाभ्यां 'तुश्छन्दसि, इतीमनचि, 'तुरिष्ठेमेयस्सु' इति टिलोपः । पूर्वत्र प्रत्ययादेर्लोपः । य एवमित्यादि गतम् ॥
3 ज्योतिरतिरात्र इत्यादि ॥ व्याख्यातम् । व्यक्ताऽहःकॢप्तिः ॥
4 पृष्ठ्यष्षडह इत्यादि ॥ षट्त्वान्वयात् पृष्ठैः ऋतून् ऋतुभिश्च संवत्सरमारुह्य तत्र प्रतितिष्ठन्ति ॥
5 त्रयस्त्रिंशादिति ॥ त्रयस्त्रिंशात्पृष्ठात् परं पुनरपि त्रयस्त्रिंशमुपयन्ति यज्ञस्य सन्तत्यै अविच्छेदाय । अथो अपि च प्रजापतिस्त्रयस्त्रिंशः सर्व देवतामयत्वात् । एतासां च त्रयस्त्रिंशत्वात् तमेवारभन्ते । तत्प्रतिष्ठार्थं भवति । त्रिणवस्तदनन्तरं भवति । विजयार्थं तद्भवति, तस्य तत्साधनत्वात् । तत एकविंशः भवति प्रतिष्ठार्थं, तत्प्रतिष्ठायास्तत्र जातत्वात् । सर्वत्र 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । अथो अपि च रुचं दीप्तिमात्मनि दधते, एकविंशस्यादित्यत्वात् । एवमेतानि दशाहानि ॥
6 अथ त्रिवृदग्निष्टुत् सर्वाग्नेयः ॥ गतमन्यन् । ततः पञ्चदश इन्द्रस्तोमः यत्र इन्द्रः स्तूयते । ततस्सप्तदशः - अन्नप्रभवत्वात् अन्नाद्याय भवति । अथो अपि च तेन प्रजायते सप्तदशस्य प्राजापत्यत्वात् । अथ - एकविंशो भवतीत्यादि । गतम् । तस्य प्रतिष्ठाहेतुत्वमुक्तं रुचो हेतुत्वं च ॥
7 अथ चतुर्विंशः ॥ चतुर्विंशतिरर्धमासा इत्यादि । गातम् । अथो अपि च एष चतुर्विंशो विषूवान् विविधस्वरूपाणामह्वां मध्यस्थः पञ्चदशत्वाद्विविधैरहोभिः तद्वान् विषूवान् । 'ह्रस्वनुड्भ्याम्' इति मतुप उदात्तत्वम् । एवं विदित्वा आसीना विषूवन्तः (विषुवतो) मध्यस्थाः सर्वैः सेव्याः भवन्ति ॥
8 अथ चतुर्विंशानन्तरं पृष्ठान्युपयन्ति ॥ संवत्सर एवेत्यादि । चतुर्विंशतिरर्धमासा इत्यादि कृत्वा । अथ त्रयस्त्रिंशान्तात्पृष्ठात् त्रयस्त्रिंशमुपयन्ति । त्रयस्त्रिंशद्वा इत्यादि । गतम् ॥
9 अथ त्रिणवः - इमे वा इत्यादि ॥ व्याख्यातम् । अथ द्वावेकविंशो बहव इत्यादि । एवं षोडशिन एकविंशो बहवो भवन्ति । तस्मात्प्रजासु च बहवो वृषाणः सेक्तारः ॥
10 यदेत इत्यादि ॥ व्यतिषक्ताः व्यत्यासेन परस्परानुषक्ताः । तस्मादियमित्यादि । गतम् ॥
11 अकॢप्ता वा इत्यादि ॥ उच्चावचस्तोमानां अह्नां उपायनात् एते अकॢप्ताः असंपन्ना एव सुवर्गं गच्छन्ति । तस्मादित ऊर्ध्वा एते स्तोमाश्चतुष्टोमात्मकाः कॢप्ता अव्यतिषक्ता भवाति चत्वारः । तेन यजमानाः कॢप्ता एव सुवर्गं लोकं गच्छन्ति । तस्तदुभयोर्लोकयोः त्रिंशद्रात्रं कल्पते सम्पन्नो भवतीति । त्रिंशदेता इत्यादि । गतम् । अतिरात्राभ्यां अन्नाद्यस्य परिग्रहः ॥
इति सप्तमे चतुर्थे तृतीयोनुवाकः ॥