अनुवाकः 19 TS 7.4.19

(A19)

(आ॒सा॒ - मत्ति॒ न - रो॑हतो॒ - जिन्व॑थ - च॒त्वारि॑ च)

अनुवाकः 19 - Complete Audio

TS 7.4.19 - स्वरानुगामी

0:00 0:00
PS1.1 अबें॒ अबां॒ल्यंबि॑के॒ न मा॑
PS1.2 नयति॒ कश्च॒न
PS1.3 स॒सस्त्य॑श्व॒कः
PS1.4 सुभ॑गे॒ कांपी॑लवासिनि सुव॒र्गे लो॒के
PS1.5 सं प्रोर्ण्वा॑थां
PS1.6 आऽहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धं
PS1.7 तौ स॒ह च॒तुरः॑ प॒दः
PS1.8 सं प्र सा॑रयावहै
PS1.9 वृषा॑ वाꣳ रेतो॒धा रेतो॑
PS1.10 दधा॒तूथ् स॒क्थ्यो᳚र्गृ॒दं धे᳚ह्य॒ञ्जिमुद॑ञ्जि॒मन्व॑ज
PS1.11 यः स्त्री॒णां जी॑व॒भोज॑नो॒ य
PS1.12 आ॑सां - [ ]
PS2.1 बिल॒धाव॑नः
PS2.2 प्रि॒यः स्त्री॒णाम॑पी॒च्यः॑
PS2.3 य आ॑सां कृ॒ष्णे लक्ष्म॑णि॒
PS2.4 सर्दि॑गृदिं प॒राव॑धीत्
PS2.5 अबें॒ अबां॒ल्यंबि॑के॒ न मा॑
PS2.6 यभति॒ कश्च॒न
PS2.7 स॒सस्त्य॑श्व॒कः
PS2.8 ऊ॒र्द्ध्वा-मे॑ना॒मुच्छ्र॑यताद्-वेणुभा॒रं गि॒रावि॑व
PS2.9 अथा᳚स्या॒ मद्ध्य॑मेधताꣳ शी॒ते वाते॑ पु॒नन्नि॑व
PS2.10 अबें॒ अबां॒ल्यंबि॑के॒ न मा॑
PS2.11 यभति॒ कश्च॒न
PS2.12 स॒सस्त्य॑श्व॒कः
PS2.13 यद्ध॑रि॒णी यव॒मत्ति॒ न -
PS2.14 [ ]
PS3.1 पु॒ष्टं प॒शु म॑न्यते
PS3.2 शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति
PS3.3 अबें॒ अबां॒ल्यंबि॑के॒ न मा॑
PS3.4 यभति॒ कश्च॒न
PS3.5 स॒सस्त्य॑श्व॒कः
PS3.6 इ॒यं ॅय॒का श॑कुन्ति॒का ऽऽहल॒मिति॒ सर्प॑ति
PS3.7 आह॑तं ग॒भे पसो॒ नि
PS3.8 ज॑ल्गुलीति॒ धाणि॑का
PS3.9 अबें॒ अबां॒ल्यंबि॑के॒ न मा॑
PS3.10 यभति॒ कश्च॒न
PS3.11 स॒सस्त्य॑श्व॒कः
PS3.12 मा॒ता च॑ ते पि॒ता
PS3.13 च॒ तेऽग्रं॑ ॅवृ॒क्षस्य॑ रोहतः
PS3.14 ( )
PS4.1 प्र सु॑ला॒मीति॑ ते पि॒ता
PS4.2 ग॒भे मु॒ष्टिम॑तꣳसयत्
PS4.3 द॒धि॒क्राव्.ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑
PS4.4 सुर॒भि नो॒ मुखा॑ कर॒त्
PS4.5 प्रण॒ आयूꣳ॑षि तारिषत्
PS4.6 आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता
PS4.7 न॑ ऊ॒र्जे द॑धातन
PS4.8 म॒हेरणा॑य॒ चक्ष॑से
PS4.9 यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑
PS4.10 भाजयते॒ह नः॑
PS4.11 उ॒श॒तीरि॑व मा॒तरः॑
PS4.12 तस्मा॒ अरं॑ गमाम वो॒
PS4.13 यस्य॒ क्षया॑य॒ जिन्व॑थ (
PS4.14 )
PS4.15 आपो॑ ज॒नय॑था च नः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.4.19.1 TS 7.4.19.1
अबें॒ अबां॒ल्यंबि॑के॒ न मा॑ नयति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥ सुभ॑गे॒ कांपी॑लवासिनि सुव॒र्गे लो॒के सं प्रोर्ण्वा॑थां ।आऽहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धं ॥ तौ स॒ह च॒तुरः॑ प॒दः सं प्र सा॑रयावहै ॥वृषा॑ वाꣳ रेतो॒धा रेतो॑ दधा॒तूथ् स॒क्थ्यो᳚र्गृ॒दं धे᳚ह्य॒ञ्जिमुद॑ञ्जि॒मन्व॑ज । यः स्त्री॒णां जी॑व॒भोज॑नो॒ य आ॑सां - [ ]
पदपाठः (Word-by-word)
अबें᳚ । अम्बा॑लि । अम्बि॑के । न । मा॒ । न॒य॒ति॒ । कः । च॒न ॥ स॒सस्ति॑ । अ॒श्व॒कः ॥ सुभ॑ग॒ इति॒ सु - भ॒गे॒ । काम्पी॑लवासि॒नीति॒ काम्पी॑ल - वा॒सि॒नि॒ । सु॒व॒र्ग इति॑ सुवः-गे । लो॒के । सम् । प्रेति॑ । ऊ॒र्ण्वा॒था॒म् ॥ एति॑ । अ॒हम् । अ॒जा॒नि॒ । ग॒र्भ॒धमिति॑ गर्भ - धम् । एति॑ । त्वम् । अ॒जा॒सि॒ । ग॒र्भ॒धमिति॑ गर्भ - धम् ॥ तौ । स॒ह । च॒तुरः॑ । प॒दः । सम् । प्रेति॑ । सा॒र॒या॒व॒है॒ ॥ वृषा᳚ । वा॒म् । रे॒तो॒धा इति॑ रेतः - धाः । रेतः॑ । द॒धा॒तु॒ । उदिति॑ । स॒क्थ्योः᳚ । गृ॒दम् । धे॒हि॒ । अ॒ञ्जिम् । उद॑ञ्जि॒मित्युत्-अ॒ञ्जि॒म् । अन्विति॑ । अ॒ज॒ ॥ यः । स्त्री॒णाम् । जी॒व॒भोज॑न॒ इति॑ जीव - भोज॑नः । यः । आ॒सा॒म् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 महिषीं सर्वैरलङ्कारैरलङ्कृतां गर्हमाणां निह्नुवानां अध्वर्युरुदानयति - अम्ब इति गायत्र्या ॥ अध्वर्युणा महिष्यामन्त्रयते एतैस्त्रिभिरामन्त्रितैः पर्यायैः बहुभिरपि । हिंसादंचेदमध्येषणरूपं? । लोके हि प्रेमातिभरेण वक्तारो भवन्ति मातर्दारिके स्वामिनीति । एवमत्रापि वेदितव्यम् । भुङ्क्ष्वेति शेषः । 'छन्दसि वेति वक्तव्यम्' इति प्रथमस्याम्बार्थलक्षणह्रस्वत्वाभावः । तृतीयस्य तु 'डलकवतीनां प्रतिषेधः' इति प्रतिषेधः, 'आमन्त्रितं पूर्वमविद्यमानवत्' इत्यविद्यमानत्वान्निघाताभावे षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । अथ सा ब्रवीति - न मा नयति न मां यब्धुं क्षमो नयति कश्चन कश्चिदपि अयं चाश्वकः क्षमोपि ससस्ति स्वपिति । कुत्सायां प्रागिवीयः कः । मय्यशयानायामेव स्वयं तूष्णीं शेते इति रोषेण कुत्सा प्रयुक्ता । षस स्वप्ने, आदादिकः व्यत्ययेन शपश्श्लुः । केचिदेकवाक्यत्वेन व्याचक्षते - महिष्येव स्वात्मानमेव एतैरामन्त्रयते यब्धुरभावनिमित्तं विषादमिव दर्शयतीति ।

अन्ये पुनराहुः - अतिरभसप्रभवा यब्धुरेवामन्त्रितफणितय इति । एवं प्रयुञ्जानः को मामानीय भवेदिति ॥

2 अध्वर्युस्तार्प्येण वाससा महिषीमश्नं च संप्रोर्णोति - सुभग इति यजुषा ॥ हे सुभगे शोभनभगे काम्पीलवासिनि काम्पीलं नाम श्लाघ्यो वस्त्रविशेषः हे तद्वासिनि तदाच्छादिनि । यद्वा - काम्पीलो नाम देशविशेषः तत्र वसन्ती काम्पीलवासिनि । काम्पीले हि स्त्रियो दर्शनीया सुभगाश्च भवन्तीति प्रसिद्धिः । हे तथाभूते । उभयोरप्यामन्त्रिताद्युदात्तत्वम् । सा त्वमश्वश्च युवां सुवर्गे लोके स्वर्गलोकस्थानीये संज्ञपनस्थाने अस्मिन् संप्रोर्ण्वाथां संछन्नौ सहवसताम् । यद्वा - सुवर्गे लोके निमित्तसप्तम्यौ; स्वर्गस्थानीयं यद्भोगसुखं तन्निमित्तं संप्रोर्ण्वाथामिति । छान्दसो लिङ्गव्यत्ययः ॥
3 महिष्या उपस्थे शेफमाधत्ते - आऽहमजानीत्यनुष्टुभा ॥ आहमजानि त्वामाभिमुख्येन आगच्छामि । अज गतिक्षेपणयोः । गर्भधं गर्भधातारं त्वमपि मां आत्वमजासि आभिमुख्येनागच्छ । तस्मादेव धातोर्लोट्यडागमः । गर्भधं गर्भस्य धात्रीं धारयित्रीम् । छान्दसो लिङ्गव्यत्ययः । तावावां त्वं चाहं च सहशयानौ चतुरः पदः पादान् संप्रसारयावहै । अश्वास्याग्रिमौ हस्तावित्यभिप्रायः । स्त्रीपुंसयोर्मैथुनाय सहशयानयोश्चत्वारः पादाः संश्लिष्टाः प्रसारिताश्च भवन्ति । 'पादः पत्' इति पद्भावः, 'ऊडिदम्' इति विभक्तेरुदात्तत्वम्, 'त्यदादीनां यद्यत्परम्' इति अस्मदश्शेषः ॥
4 तावध्वर्युरभिमन्त्रयते - वृषा वामित्यत्यष्ट्या अष्टपदया ॥ दधात्विति प्रथमपादान्तः । वां युवयोर्दम्पत्योर्मध्ये वृषा सेक्ता सेचनसमर्थः रेतोधाः रेतसो धाता पतिः रेतो दधातु स्थापयतु । तदर्थमित्थं कर्तव्यमित्याह - वृषणमूले सक्स्थ्योः तयोर्मध्ये गृदं गुदस्योर्ध्वप्रदेशं धेहि ऊर्ध्वं स्थापय यत् प्रजननं ब्राह्मणमाहुः । 'ई च द्विवचने' इति सक्थिशब्दस्य ईकारः । उदात्त इति तत्रानुवर्तते । 'उदात्तयणः' इति तिभक्तेरुदात्तत्वं बाधित्वा व्यत्ययेन 'उदात्तस्वरितयोर्यणः' इति स्वरितत्वं प्रवर्तते । 'गृ सेचने' इत्यस्मादौणादिके दक्प्रत्यये गृदमिति भवति । ततस्तथा कृत्वा अञ्जिं प्रजननं उदञ्जिं उपस्थं प्रवेशय । अञ्ज्यते प्रजा अनेनेति अञ्जिः । सर्वे चैते मन्त्राः प्रहेळिकास्थानीयाः अन्यपराक्षरत्वात् अश्वमेधप्राशस्त्याभिप्राया एव । 'अप वा एतस्माच्छ्री राष्ट्रं क्रामति' इत्यत्र तथैव प्रतिपादयिष्यते । अधुना अञ्जिर्विशेष्यते - यस्स्त्रीणां जीवभोजनः जीवो भुङ्क्तेऽनेनेति जीवभोजनः । जीवो भुज्यते रक्ष्यते अनेनेति वा । अन्ये त्वाहुः - स्त्रीणां संबन्धि जीवभोजनः जीवत्वहेतुः भोजनं; अनेन हि भोगे सति पुरुषा जीवन्तीत्युच्यते, अन्यथा मृता एवेति । तादृशश्च भोगः अनेन क्रियते इति । स्त्रीणामिति 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् । पुनश्च विशेष्यते - य आसां स्त्रीणां बिलधावनः बिलं छिद्रं भीत धावति नान्यदस्याह्निकं कर्म । यद्वा - नैवं बिलधा- वनकुशलोन्योस्ति । 'कृत्यल्युटो बहुलम्' इति कर्तरि ल्युट् । किंच - प्रियः स्त्रीणां 'नामन्यतरस्यां' इति नाम उदात्तत्वम् । पुनश्च विशेष्यते - भृशं प्रीणयिता कीदृशस्सन् अपीच्यः

अप्रकाशः अपिगमनमप्ययः अन्तर्धानं पुनःपुनश्चलनं वा । अपिपूर्वादञ्चतेः 'ऋत्विक्' इत्यादिना क्विन्प्रत्ययः । ततो 'भवे छन्दसि' इति यत्, 'अचः' इत्यकारलोपः, 'चौः' इति पूर्वपदस्य दीर्घत्वम् । अप्रकाशस्सन् पुनःपुनर्वा विशन् स्त्रीणां प्रीणन इति । तत्र किं कुर्वन् प्रीणयतीत्याह - योयमञ्जिरासां स्त्रीणां कृष्णे कर्षणीये लक्ष्मणि योनेरभ्यन्तरप्रदेशविशेषो लक्ष्म । उपस्थमिति केचित् स्त्रीणां व्यञ्जनमिति कृत्वा । तत्र सर्दिगृदिं सरणशीलं गुदस्योपरिभागं परावधीत् पराहन्ति । छान्दसो लुङ् । असिश्छिनत्तीतिवत् करणे कर्तृनिर्देशः । आरूढो ह्यनेन तं देशं पराहन्ति । उक्तं हि - अञ्जिं उदञ्जिमन्वजेति । सृ गतौ । गृ सेचने । आभ्यामौणादिकोऽप्रत्ययः । सारणमुत्सारणं पुंस उत्थान स्थानीयं यद्योनिबृह्मणमिति प्रसिद्धं तादृशं गृदिमिति कर्मधारयसमासे दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - सरणशीलो गृदिः यस्मिन् स्थानविशेषे यत् शुक्लेन सिच्यते तादृशं स्थानं सर्दिगृदिशब्देनोच्यते । 'बहुव्रीहौ प्रकृत्या' इति पूर्वपदप्रकृतिस्वरत्वम् । सर्वथा व्युत्पत्त्यनवधारणात् नावगृह्यते । तादृशमुदञ्जिमन्वजेति ॥

5 महिषी गर्हते - अम्ब इत्यादिना ॥ मय्युपशयानायामपि न मा यभति । यभ मैथुने । ससस्त्येवायमश्वकः न कश्चिदन्यः क्षमः मां यब्धुम् । न वाऽन्योस्य व्यापारयिता ॥
6 तां यजमानः अभिमेधति - ऊर्ध्वामित्यनुष्टुभा ॥ असहमान इव ब्रवीति । एनां योनिमूर्ध्वां उच्छ्रयतात् उछ्रिता कुरु उच्छ्रितं प्रजननं प्रत्युत्थितां कुरु वोणुभारमिव गिरौ भारहारः स यथा विवक्षुः जीवो गौरवेण भारमुच्छ्रयति । वेणुग्रहणं सुखनिपात्यत्वख्यापनार्थम् । अथानन्तरमस्यास्तथा उच्छ्रिताया मध्यमेधतां वर्धताम् । अभिमतान्तःप्रवेशेन । सर्वो ह्यभिमतलाभेन वर्धते हर्षं गच्छति यथा शीते वाते पुनन् खलपूः पवनेन श्रान्तो वातलाभेन वर्धेते । अन्य आह - यथा शीते वाते पुनन् वर्धते वर्धिष्यतीति त्वरते एवमस्या मध्य उच्छ्रयणानन्तरं वर्धिष्यतीति । एवमिमां कर्तुं ऋक्सामो (?) नास्ति अयं त्वश्व इदानीं विश्राम्यत्विति ॥
7 अथ सा तथैव गर्हते - अम्ब इति ॥
8 अथ वावाताऽभिमेधयति - यद्धरिणीत्यनुष्टुभा ॥ यदा हरिणी यवं क्षेत्रेषु उप्तमत्ति भक्षयति तदा न पशुं साधु पुष्टं मन्यते अकृतार्थैव पुनर्भक्षयति न कदाचिदपि पर्याप्तं मन्यते एवं अकृतार्थेव भूयोभूयो भोक्तुं इयमेव क्षमेति । पशुशव्दोऽसत्त्ववचनोव्ययम् । अन्य आह - यथा हरिणी क्षेत्रिकस्य अप्रज्ञातम् । 'सुपां सुलुक्' इति सुपो लुक् एवं भोक्तुं त्वमेव क्षमेति । किञ्च - शूद्रा शूद्रजातीया स्त्री यवं भक्षयति तत्तं पुष्टमपि भोगं पशु न क्षेत्रिको मन्यते न जानाति । 'सुपां सुलुक्' इति सुपो लुक् । एवं भोक्तुं त्वमेव क्षमेति । किञ्च - शूद्रा शूद्रजातीया स्त्री । 'शूद्रा चामहत्पूर्वा जातिः' इति टाप् । सा यदा अर्यजारा भवति । अर्यो - ब्राह्मणादिः स जारो यस्याः । 'अर्यस्स्वामिवैश्ययोः' इति निपात्यते । सा किं तदानीं पोषाय कुटुम्बाभिवृद्धये धनायति स्पृहयति कुटुम्बं मे वर्धतां परिशुद्धमपत्यं मे जायतामिति नेयं प्रवर्तते भोगार्थं नूनं जानासि या त्वमेवं तृप्यसीति । 'अशनायोद- न्यधनाया' इति गर्भे निपात्यते । अन्य आह - धनायति धनमात्मन इच्छति 'सुप आत्मनः' इति क्यप् 'न छन्दस्यपुत्रस्य' इतीत्वाभावः । शूद्रा अर्यजारा भवन्ती तत्र किं पुष्ट्यर्थं धनमिच्छन्ती धनं जिघृक्षति । किञ्च या नूनं जाता तदेवमतृप्तभोगायैव भवसीति ॥
9 महिष्या अन्या राज्ञो भोग्या वावाता । अथ सा तथैव गर्हते - अम्ब इति ॥
10 अथ तां परिवृक्त्योऽभिमेधन्ति - इयं यकेत्यनुष्टुभा ॥ राज्ञो द्वेष्या भार्या परिवृक्तिः । इयं शकुन्तिका शकुन्तजातीया स्त्री यका याकाचिदपि अविज्ञातविशेषत्वात् । अज्ञातार्थे प्रागिवीयः कः, 'न यासयोः' इतीत्वाभावः । इयं सर्वथाऽपि शकुन्तिका आहलं समन्ताच्छब्दयित्वा इति इत्यं यथा वयं पश्याम कुरर्यादिषु एवं भृशं शब्दायमाना दयितमेव सर्पति न जहाति एवं त्वमसीति । हल व्यक्तायां वाचि, छान्दसः कमुल प्रत्ययः । यद्वा - हला डति शकुन्तानामाह्वानशब्दः, आगतहलाशब्दं आहलम् । 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । दयितमेवाह्वयन्ती सर्पति न जहातीति । किञ्च - गभे वर्णव्यत्ययः । पसः सुखकरं जलं आहतं आहननोद्गतम् । वर्णलोपो वा गर्भे स्थितं बहिरागतं निजल्गुलीति भृशं निगिरति ग्रसते जलं धाणिका पालनशीला । धेटो ल्युटि संज्ञायां कनि 'केणः' इति ह्रस्वत्वे छान्दसो नकारः । व्यत्यस्तविकृतानेकपदोपादानेन रतिरभसं दर्शयति । अन्य आह - धाणिका योनिरेतसो धात्री इयं धाणिका याकाचित् शकुन्तिकेव आहलमिति आकृष्टमिति कृत्वा आकर्षणेन विलेखनेन हेतुना स्वयं सर्पति अभिसर्पति । अस्मिन् पक्षे व्यत्ययेनाख्यातस्य निघाताभावः । किञ्च - गभे गर्भे चाहतं आपादितं पसः शुक्लं निजल्गुलीति निगिरति परिगृह्णाति । अथवा - आहतमिति कृत्वा असौ निजल्गुलीति ग्रसते पिदधाति एवमालपन्ती त्वं न तृप्यसीति ॥
11 सा भूयोपि तथैव च गर्हते - अम्ब इत्यादिना ॥
12 अथ तां सर्वा अङ्गना अभिमेधयन्ते - मातेत्यनुष्टुभा ॥ विकारे प्रकृतिशब्दः । वृक्षविकारस्य खट्वाया अग्रं उत्सङ्गं तव माता च पिता च पूर्वमारोहतः । अथ तत्रारुह्य तव पिता प्रसुलामि प्रसङ्गेन त्वां प्रेरयामीति तव मातरं प्रलोभ्य तव मातुर्गर्भे भगे मुष्टिं मुष्टिस्थानीयं खरं शेफं अतंसयत् प्रावेशयत् । षू प्रेरणे तौदादिकः, छान्दसो लकारः । तंसतिरवतंसनकर्मा वा । यद्वा - प्रसुलामि प्रसौमि अनुजानामि तवातिप्रसङ्गं यच्छक्नोषि तत्कुरुष्वेति करिष्यमाणमतिप्रसङ्गं प्रकाशयन् गर्भे मुष्टिं प्रावेशयदिति । षु प्रसवैश्वर्ययोः, आदादिकः । व्यत्ययेन शः । स्वपतेर्वा लेट्याडागमः, व्यत्ययेन शपो लुक् । 'भूसुवोस्तिङि' इति गुणाभावः । एवं त्वमपि अतिप्रसक्ताऽसि वर्तस्वेदानीमिति । अन्य आह - माता योनिः, पिता जननं; तावुभौ वृक्षस्य वर्षणव्यापारस्य अग्रं परां काष्ठां रोहतः प्राप्तवन्तौ अथानन्तरं पिता प्रसुलामि प्रकर्षेण प्रेरितं मयेति एतावन्तं कालमनुज्ञातं मयेति वा कृपामतीवोद्भावयन् तव गर्भे मातरि कृतमुष्टिं संयोगमुद्रामतंसयत् शिथिलीकृत्य निरगमत्; तेनेदानीमुत्तिष्ठेति । तसु क्षये छान्दसो नुमागमः ॥
13 सर्वे सुरभिमतीमृचं जपन्ति - दधिक्राव्ण्ण इत्यनुष्टुभा ॥ व्याख्यातेयं 'वैश्वानरो नः' इत्यत्र । दधीनि वारणहवींषि क्रमतोग्नेः जिष्णोः जयशीलस्य अश्वस्य व्यापकस्य वाजिनः अन्नवतः अहमकार्षं कर्मकरस्स्याम् । स चास्माकं मुखानि सुरभीणि सुकृतैः समासादितसौरभाणि करोतु । आयूंषि च अस्मभ्यं प्रतारिषत् वर्धयत्विति ॥
14 अद्भिर्मार्जयन्ते - आपो हिष्ठेति तिसृभिर्गायत्रीभिः ॥ एताश्च तिस्रः 'वि पाजसा' इत्यत्र व्याख्याताः । हे आपः यूयं आपो व्यापिकास्स्थ । मयोभुवः सुखस्य भावयित्र्यः ता यूयं ऊर्जे अन्नार्थं रसार्थं वा दधातन धारयत । महते रमणीयाय दर्शनीयाय वा युष्माकं शिवतमो रसः तमस्मान् सेवयत । इहास्मिन्कर्मणि कामयमानाः स्नेहवत्यो मातर इव युष्माकं सम्बन्धिने तस्मै रसाय पर्याप्तये अरं गमाम ततः पर्याप्तं गम्यास्म । यस्य रसस्य निवासभूतं पुरुषं जिन्वथ प्रीणयत । अस्माकं जनयथ च जातान् कुरुत, युष्मदीयरसलाभेन हि जाता भवन्तीति ॥
इति सप्तमे चतुर्थे एकोनविंशोनुवाकः ॥
पञ्चशत् 2 #
TS 7.4.19.2 TS 7.4.19.2
बिल॒धाव॑नः । प्रि॒यः स्त्री॒णाम॑पी॒च्यः॑ ॥ य आ॑सां कृ॒ष्णे लक्ष्म॑णि॒ सर्दि॑गृदिं प॒राव॑धीत् ॥अबें॒ अबां॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥ऊ॒र्द्ध्वा-मे॑ना॒मुच्छ्र॑यताद्-वेणुभा॒रं गि॒रावि॑व । अथा᳚स्या॒ मद्ध्य॑मेधताꣳ शी॒ते वाते॑ पु॒नन्नि॑व ॥ अबें॒ अबां॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥ यद्ध॑रि॒णी यव॒मत्ति॒ न - [ ]
पदपाठः (Word-by-word)
बि॒ल॒धाव॑न॒ इति॑ बिल - धाव॑नः ॥ प्रि॒यः । स्त्री॒णाम् । अ॒पी॒च्यः॑ ॥ यः । आ॒सा॒म् । कृ॒ष्णे । लक्ष्म॑णि । सर्दि॑गृदिम् । प॒राव॑धी॒दिति॑ परा - अव॑धीत् ॥ अम्बे᳚ । अम्बा॑लि । अम्बि॑के । न । मा॒ । य॒भ॒ति॒ । कः । च॒न ॥ स॒सस्ति॑ । अ॒श्व॒कः ॥ ऊ॒द्‌र्ध्वाम् । ए॒ना॒म् । उदिति॑ । श्र॒य॒ता॒त् । वे॒णु॒भा॒रमिति॑ वेणु-भा॒रम् । गि॒रौ । इ॒व॒ ॥ अथ॑ । अ॒स्याः॒ । मद्ध्य᳚म् । ए॒ध॒ता॒म् । शी॒ते । वाते᳚ । पु॒नन्न् । इ॒व॒ ॥ अम्बे᳚ । अम्बा॑लि । अम्बि॑के । न । मा॒ । य॒भ॒ति॒ । कः । च॒न ॥ स॒सस्ति॑ । अ॒श्व॒कः ॥ यत् । ह॒रि॒णी । यव᳚म् । अत्ति॑ । न ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 7.4.19.3 TS 7.4.19.3
पु॒ष्टं प॒शु म॑न्यते । शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति ॥अबें॒ अबां॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥इ॒यं ॅय॒का श॑कुन्ति॒का ऽऽहल॒मिति॒ सर्प॑ति । आह॑तं ग॒भे पसो॒ नि ज॑ल्गुलीति॒ धाणि॑का ॥ अबें॒ अबां॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥मा॒ता च॑ ते पि॒ता च॒ तेऽग्रं॑ ॅवृ॒क्षस्य॑ रोहतः ( ) ।
पदपाठः (Word-by-word)
पु॒ष्टम् । प॒शु । म॒न्य॒ते॒ ॥ शू॒द्रा । यत् । अर्य॑जा॒रेत्यर्य॑ - जा॒रा॒ । न । पोषा॑य । ध॒ना॒य॒ति॒ ॥ अम्बे᳚ । अम्बा॑लि । अम्बि॑के । न । मा॒ । य॒भ॒ति॒ । कः । च॒न ॥ स॒सस्ति॑ । अ॒श्व॒कः ॥ इ॒यम् । य॒का । श॒कु॒न्ति॒का । आ॒हल॒मित्या᳚-हल᳚म् । इति॑ । सर्प॑ति ॥ आह॑त॒मित्या-ह॒त॒म् । ग॒भे । पसः॑ । नीति॑ । ज॒ल्गु॒ली॒ति॒ । धाणि॑का ॥ अम्बे᳚ । अम्बा॑लि । अम्बि॑के । न । मा॒ । य॒भ॒ति॒ । कः । च॒न ॥ स॒सस्ति॑ । अ॒श्व॒कः ॥ मा॒ता । च॒ । ते॒ । पि॒ता । च॒ । ते॒ । अग्र᳚म् । वृ॒क्षस्य॑ । रो॒ह॒तः॒ ( ) ॥
पदसंख्या: 50
पञ्चशत् 4 #
TS 7.4.19.4 TS 7.4.19.4
प्र सु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तꣳसयत् ॥द॒धि॒क्राव्.ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सुर॒भि नो॒ मुखा॑ कर॒त् प्रण॒ आयूꣳ॑षि तारिषत् ॥आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से ॥यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ( ) । आपो॑ ज॒नय॑था च नः ॥
पदपाठः (Word-by-word)
प्रेति॑ । सु॒ला॒मि॒ । इति॑ । ते॒ । पि॒ता । ग॒भे । मु॒ष्टिम् । अ॒तꣳ॒॒स॒य॒त् ॥ द॒धि॒क्राव्.ण्ण॒ इति॑ दधि-क्राव्.ण्णः॑ । अ॒का॒रि॒ष॒म् । जि॒ष्णोः । अश्व॑स्य । वा॒जिनः॑ ॥ सु॒र॒भि । नः॒ । मुखा᳚ । क॒र॒त् । प्रेति॑ । नः॒ । आयूꣳ॑षि । ता॒रि॒ष॒त् ॥ आपः॑ । हि । स्थ । म॒यो॒भुव॒ इति॑ मयः - भुवः॑ । ताः । नः॒ । ऊ॒र्जे । द॒धा॒त॒न॒ ॥ म॒हे । रणा॑य । चक्ष॑से ॥ यः । वः॒ । शि॒वत॑म॒ इति॑ शि॒व - त॒मः॒ । रसः॑ । तस्य॑ । भा॒ज॒य॒त॒ । इ॒ह । नः॒ ॥ उ॒श॒तीः । इ॒व॒ । मा॒तरः॑ ॥ तस्मै᳚ । अर᳚म् । ग॒मा॒म॒ । वः॒ । यस्य॑ । क्षया॑य । जिन्व॑थ ( ) ॥ आपः॑ । ज॒नय॑थ । च॒ । नः॒ ॥
पदसंख्या: 54