पञ्चशत् 1 #
भूर्भुवः॒ सुव॒र्वस॑वस्त्वा ऽञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा᳚ ऽञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा, ऽऽदि॒त्यास्त्वा᳚ऽञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा॒ यद्-वातो॑ अ॒पो अग॑म॒दिन्द्र॑स्य त॒नुवं॑ प्रि॒यां । ए॒तꣳ स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒मा व॑र्तयासि नः ॥ लाजी(3)ञ्छाची(3)न् यशो॑ म॒माॅ(4) । य॒व्यायै॑ ग॒व्याया॑ ए॒तद्-दे॑वा॒ अन्न॑मत्तै॒तदन्न॑मद्धि प्रजापते ॥ यु॒ञ्जन्ति॑ ब्र॒द्ध्न ( )-म॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑ । रोच॑न्ते रोच॒ना दि॒वि ॥ यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे᳚ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥ के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे᳚ । समु॒षद्भि॑रजायथाः ॥
पदपाठः (Word-by-word)
भूः । भुवः॑ । सुवः॑ । वस॑वः । त्वा॒ । अ॒ञ्ज॒न्तु॒ । गा॒य॒त्रेण॑ । छन्द॑सा । रु॒द्राः । त्वा॒ । अ॒ञ्ज॒न्तु॒ । त्रैष्टु॑भेन । छन्द॑सा । आ॒दि॒त्याः । त्वा॒ । अ॒ञ्ज॒न्तु॒ । जाग॑तेन । छन्द॑सा । यत् । वातः॑ । अ॒पः । अग॑मत् । इन्द्र॑स्य । त॒नुव᳚म् । प्रि॒याम् ॥ ए॒तम् । स्तो॒तः॒ । ए॒तेन॑ । प॒था । पुनः॑ । अश्व᳚म् । एति॑ । व॒र्त॒या॒सि॒ । नः॒ ॥ लाजी(3)न् । शाची(3)न् । यशः॑ । म॒मा(4)ॅम् ॥ य॒व्यायै᳚ । ग॒व्यायै᳚ । ए॒तत् । दे॒वाः॒ । अन्न᳚म् । अ॒त्त॒ । ए॒तत् । अन्न᳚म् । अ॒द्धि॒ । प्र॒जा॒प॒त॒ इति॑ प्रजा - प॒ते॒ ॥ यु॒ञ्जन्ति॑ । ब्र॒द्ध्नम् ( ) । अ॒रु॒षम् । चर॑न्तम् । परीति॑ । त॒स्थुषः॑ ॥ रोच॑न्ते । रो॒च॒ना । दि॒वि ॥ यु॒ञ्जन्ति॑ । अ॒स्य॒ । काम्या᳚ । हरी॒ इति॑ । विप॑क्ष॒सेति॒ वि - प॒क्ष॒सा॒ । रथे᳚ ॥ शोणा᳚ । धृ॒ष्णू इति॑ । नृ॒वाह॒सेति॑ नृ-वाह॑सा ॥ के॒तुम् । कृ॒ण्वन्न् । अ॒के॒तवे᳚ । पेशः॑ । म॒र्याः॒ । अ॒पे॒शसे᳚ ॥ समिति॑ । उ॒षद्भि॒रित्यु॒षत् - भिः॒ । अ॒जा॒य॒थाः॒ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पत्न्योश्वमञ्जन्ति । प्राक्क्रोडात् महिषी 'वसवस्त्वाञ्जन्तु गायत्रेण छन्दसा' इति भूरिति च । अथ क्रोडादारभ्या नाभेर्वावाता 'रुद्रास्त्वाञ्जन्तु त्रैष्टुभेन छन्दसा' इति भुव इति च । तथा नाभेरारभ्य आपुच्छात् परिवृक्तिः 'आदित्यास्त्वाऽञ्जन्तु जागतेन छन्दसा' इति सुवरिति च । गता मन्त्राः ॥
2 अथ शालां नयन्ति - यद्वात इति ॥ पथ्या बृहतीयं, तृतीयस्य पादस्य द्वादशाक्षरत्वात् । पुनरिति तस्यान्तः । हे स्तोतः शव्दयितः वायो यत् येन पथा । ' सुपां सुलुक् ' इति लुक् । वातः प्राणाख्या तव वृत्तिः अपः अगमत् अगमयत् । ' बहुलमन्यत्रापि' इति णिलुक् । ' छन्दस्युभयथा ' इत्यार्धधातुकत्वात् शपः । इन्द्रस्य प्रियां तनुवं तनुम् । ' तन्वादीनां छन्दसि ' इत्युवङ् । एतेन पथा एतं अश्वे पुनरस्मान् प्रत्यावर्तयासि । आवर्तयतेर्लेट्याडागमः । (अस्माकं वा) ॥
3 अश्वाय मधुमिश्रात् लाजान् प्रकिरति - लाजीनित्यनुष्टुभा ॥ हे लाजवन् लाजिन् हे शाचदन् शाचिन् । यशो ममामित्यस्य मम यशोहेतोः । 'परमपि छन्दसि' इति षष्ठ्यन्तस्य पूर्वाङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य स्वरः । त्रयाणामपि पूर्वपूर्वाविद्यमानवद्भावेन भावितं आमन्त्रिताद्युदात्तत्वम् । 'दूराद्धूते च' इत्युदात्तः प्लुतः, तस्यासिद्धत्वादुत्तरस्य वर्जमानस्वराभावः । अन्त्यस्य 'यणोऽप्रतिगृह्यस्य' इति सानुनासिकः प्लुतः । यव्यायै गव्यायै च यूयं नो भवत हे लाजा हे सक्तवः । यवानां समूहो यव्या । 'पाशादिभ्यो यः' । गवां समूहो गव्या 'खलगोरथात्' इति यः । यदन्तश्च स्वभावतः स्त्रियां वर्तते । एतच्चान्नमिव इममश्वं अनुप्रविश्य हे देवाः अत्त । प्रजापते त्वमपि एतदन्नमद्धि । प्राधान्यात् पुनरुपादानं प्रजापतेः । यथा - ब्राह्मणा आयाताः वसिष्ठोप्यायात इति ॥
4 अश्वं रथे युनक्ति - युऽञ्जन्ति ब्रध्रमिति ॥ एतास्तिस्रो गायत्र्यः । युञ्जन्ति युञ्जन्तु ब्रध्नं परिबृढमश्वं अरुषं अरोषणं च - रन्तं साधुचरणं परितस्थुषः परितस्थिवांसः । विभक्तिव्यत्ययः । (व्यष्टिं चिते) रोचन्ते अस्य पृष्ठे रोचनानि रोचमानानि रश्मयः दिवि । 'अनुदात्तेतश्च हलादेः' इति रोचतेर्युच् । 'शेश्छन्दसि' इति शेर्लोपः ॥
5 इतरयोः पृष्ठे संमृज्येते - युञ्जन्ति युञ्जन्तु अस्य काम्या काम्यौ इष्टौ । कामयतेरचो यत्, 'सुपां सुलुक्' इत्याकारः । हरी अश्वौ विपक्षसा विपक्षसौ उभयोः पक्षयोः स्थितौ । पूर्ववदाकारः । रथे शोणा शोणवर्णौ आलोहितौ धृष्णू धर्षणसमर्थौ शत्रूणां नृवाहसा नॄन् वहन्तीति नृवाहसौ मनुष्यवाहौ । 'वहिहाधाञ्भ्यश्छन्दसि' इत्यसुन् । 'कारकपूर्वात्' इति, णिदिति च तत्रानुवर्तते । पूर्ववदाकारः ॥
6 ध्वजं प्रतिमुञ्चति - केतुं ध्वजं कृण्वन् कुर्वन्तु । कृवि हिंसाकरणयोः, लेटि 'धिन्विकृण्व्योरच्' इत्युप्रत्ययः, छान्दसो निघाताभावः । अकेतवे असत्यस्मिन्नज्ञापकाय पेशः रूपं रूपवृन्दं हे मर्याः मनुष्याः । 'छन्दसि निष्टर्क्य' इत्यत्र निपात्यते । अपेशसे असत्यस्मिन् रूपरहिताय । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । तथा हि सति त्वं उषद्भिः ज्वलद्भिरिव समजायथाः ज्वालावानिव संजायस्व । जानातेर्वा छान्दसो जभावः । ज्ञापकेन हेतुना ज्वालावानिव सर्वत्र ज्ञायस्व । 'दृक् स्ववस्स्वतवसाम्' इत्यादिना उषसः तत्वम् ॥
इति सप्तमे चतुर्थे विंशोनुवाकः ॥