मा॒तृत॑मास्व॒न्तः ॥ क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॒ योनि॑र॒स्यावि॑न्नो अ॒ग्निर् गृ॒हप॑ति॒रावि॑न्न॒ इन्द्रो॑ वृ॒द्धश्र॑वा॒ आवि॑न्नः पू॒षा वि॒श्ववे॑दा॒ आवि॑न्नौ मि॒त्रावरु॑णा वृता॒वृधा॒वावि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ आवि॑न्ना दे॒व्यदि॑तिर् विश्वरू॒प्यावि॑न्नो॒ ऽयम॒सावा॑मुष्याय॒णो᳚ऽस्यां ॅवि॒श्य॑स्मिन् रा॒ष्ट्रे म॑ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्यायै॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णानाꣳ॒॒ राजेन्द्र॑स्य॒- [ ]
पदपाठः (Word-by-word)
मा॒तृत॑मा॒स्विति॑ मा॒तृ - त॒मा॒सु॒ । अ॒न्तः ॥ क्ष॒त्रस्य॑ । उल्ब᳚म् । अ॒सि॒ । क्ष॒त्रस्य॑ । योनिः॑ । अ॒सि॒ । आवि॑न्नः । अ॒ग्निः । गृ॒हप॑ति॒रिति॑ गृ॒ह-प॒तिः॒ । आवि॑न्नः । इन्द्रः॑ । वृ॒द्धश्र॑वा॒ इति॑ वृ॒द्ध-श्र॒वाः॒ । आवि॑न्नः । पू॒षा । वि॒श्ववे॑दा॒ इति॑ वि॒श्व - वे॒दाः॒ । आवि॑न्नौ । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । ऋ॒ता॒वृधा॒वित्यृ॑त-वृधौ᳚ । आवि॑न्ने॒ इति॑ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । धृ॒तव्र॑ते॒ इति॑ धृ॒त - व्र॒ते॒ । आवि॑न्ना । दे॒वी । अदि॑तिः । वि॒श्व॒रू॒पीति॑ विश्व-रू॒पी । आवि॑न्नः । अ॒यम् । अ॒सौ । आ॒मु॒ष्या॒य॒णः । अ॒स्याम् । वि॒शि । अ॒स्मिन्न् । रा॒ष्ट्रे । म॒ह॒ते । क्ष॒त्राय॑ । म॒ह॒ते । आधि॑पत्या॒येत्याधि॑-प॒त्या॒य॒ । म॒ह॒ते । जान॑राज्या॒येति॒ जान॑-रा॒ज्या॒य॒ । ए॒षः । वः॒ । भ॒र॒ताः॒ । राजा᳚ । सोमः॑ । अ॒स्माक᳚म् । ब्रा॒ह्म॒णाना᳚म् । राजा᳚ । इन्द्र॑स्य ।