वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ यं ॅवृ॒त्रं ॅव॑द्ध्याच्छत्रु॒बाध॑नाः स्थ पा॒त मा᳚ प्र॒त्यञ्चं॑ पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्चं॑ मा पात दि॒ग्भ्यो मा॑ पात॒ विश्वा᳚भ्यो मा ना॒ष्ट्राभ्यः॑ पात॒ हिर॑ण्यवर्णा-वु॒षसां᳚ ॅविरो॒केऽयः॑स्थूणा॒-वुदि॑तौ॒ सूर्य॒स्याऽऽ रो॑हतं ॅवरुण मित्र॒ गर्तं॒ तत॑श्चक्षाथा॒मदि॑तिं॒ दितिं॑ च ॥
पदपाठः (Word-by-word)
वज्रः॑ । अ॒सि॒ । वार्त्र॑घ्न॒ इति॒ वार्त्र॑ - घ्नः॒ । त्वया᳚ । अ॒यम् । वृ॒त्रम् । व॒द्ध्या॒त् । श॒त्रु॒बाध॑ना॒ इति॑ शत्रु-बाध॑नाः । स्थ॒ । पा॒त । मा॒ । प्र॒त्यञ्च᳚म् । पा॒त । मा॒ । ति॒र्यञ्च᳚म् । अ॒न्वञ्च᳚म् । मा॒ । पा॒त॒ । दि॒ग्भ्य इति॑ दिक्-भ्यः । मा॒ । पा॒त॒ । विश्वा᳚भ्यः । मा॒ । ना॒ष्ट्राभ्यः॑ । पा॒त॒ । हिर॑ण्यवर्णा॒विति॒ हिर॑ण्य - व॒र्णौ॒ । उ॒षसा᳚म् । वि॒रो॒क इति॑ वि - रो॒के । अयः॑ स्थूणा॒विययः॑ - स्थू॒णौ॒ । उदि॑ता॒वियुत् - इ॒तौ॒ । सूर्य॑स्य । एति॑ । रो॒ह॒त॒म् । व॒रु॒ण॒ । मि॒त्र॒ । गर्त᳚म् । ततः॑ । च॒क्षा॒था॒म् । अदि॑तिम् । दिति᳚म् । च॒ ॥