प्रश्नः 8 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.8.18.1 TS 1.8.18.1
स॒द्यो दी᳚क्षयन्ति स॒द्यः सोमं॑ क्रीणन्ति पुण्डरिस्र॒जां प्र य॑च्छति द॒शभि॑र् वथ्सत॒रैः सोमं॑ क्रीणाति दश॒पेयो॑ भवति श॒तं ब्रा᳚ह्म॒णाः पि॑बन्ति सप्तद॒शꣳ स्तो॒त्रं भ॑वति प्राका॒शाव॑द्ध्व॒र्यवे॑ ददाति॒ स्रज॑-मुद्गा॒त्रे रु॒क्मꣳ होत्रेऽश्वं॑ प्रस्तोतृप्रतिह॒र्तृभ्यां॒ द्वाद॑श पष्ठौ॒हीर् ब्र॒ह्मणे॑ व॒शां मै᳚त्रावरु॒णाय॑र्.ष॒भं ब्रा᳚ह्मणाच्छꣳ॒॒सिने॒ वास॑सी नेष्टापो॒तृभ्याꣳ॒॒ स्थूरि॑ यवाचि॒त-म॑च्छावा॒काया॑न॒ड्वाह॑-म॒ग्नीधे॑ भार्ग॒वो होता॑ भवति श्राय॒न्तीयं॑ ब्रह्मसा॒मं भ॑वति वारव॒न्तीय॑ ( ) मग्निष्टोमसा॒मꣳ सा॑रस्व॒ती-र॒पो गृ॑ह्णाति ॥
पदपाठः (Word-by-word)
स॒द्यः । दी॒क्ष॒य॒न्ति॒ । स॒द्यः । सोम᳚म् । क्री॒ण॒न्ति॒ । पु॒ण्ड॒रि॒स्र॒जाम् । प्रेति॑ । य॒च्छ॒ति॒ । द॒शभि॒रिति॑ द॒श-भिः॒ । व॒थ्स॒त॒रैः । सोम᳚म् । क्री॒णा॒ति॒ । द॒श॒पेय॒ इति॑ दश-पेयः॑ । भ॒व॒ति॒ । श॒तम् । ब्रा॒ह्म॒णाः । पि॒ब॒न्ति॒ । स॒प्त॒द॒शमिति॑ सप्त - द॒शम् । स्तो॒त्रम् । भ॒व॒ति॒ । प्रा॒का॒शौ । अ॒द्ध्व॒र्यवे᳚ । द॒दा॒ति॒ । स्रज᳚म् । उ॒द्गा॒त्र इत्यु॑त्-गा॒त्रे । रु॒क्मम् । होत्रे᳚ । अश्व᳚म् । प्र॒स्तो॒तृ॒प्र॒ति॒ह॒र्तृभ्या॒मिति॑ प्रस्तोतृप्रतिह॒र्तृ-भ्यां॒ । द्वाद॑श । प॒ष्ठौ॒हीः । ब्र॒ह्मणे᳚ । व॒शाम् । मै॒त्रा॒व॒रु॒णायेति॑ मैत्रा - व॒रु॒णाय॑ । ऋ॒ष॒भम् । ब्रा॒ह्म॒णा॒च्छꣳ॒॒सिने᳚ । वास॑सी॒ इति॑ । ने॒ष्टा॒पो॒तृभ्या॒मिति॑ नेष्टापो॒तृ - भ्या॒म् । स्थूरि॑ । य॒वा॒चि॒तमिति॑ यव - आ॒चि॒तम् । अ॒च्छा॒वा॒काय॑ । अ॒न॒ड्वाह᳚म् । अ॒ग्नीध॒ इत्य॑ग्नि - इधे᳚ । भा॒र्ग॒वः । होता᳚ । भ॒व॒ति॒ । श्रा॒य॒न्तीय᳚म् । ब्र॒ह्म॒सा॒ममिति॑ ब्रह्म - सा॒मम् । भ॒व॒ति॒ । वा॒र॒व॒न्तीय॒मिति॑ वार - व॒न्तीय᳚म् ( ) । अ॒ग्नि॒ष्टो॒म॒सा॒ममित्य॑ग्निष्टोम - सा॒मम् । सा॒र॒स्व॒तीः । अ॒पः । गृ॒ह्णा॒ति॒ ॥
पदसंख्या: 54
सायणभाष्यम् (Sayana Commentary)

सप्तदशे संसृपां हवींष्युक्तानि । अष्टादशे दशपेय उच्यते । तत्र दीक्षासोमक्रययोश्चोदकप्राप्तं दिनभेदमपवदितुं विधत्ते –

सद्य इति । प्रकृतावप्सु स्नात्यपोऽश्नातीति यद्विहितं तदपवदितुं विधत्ते –

पुण्डरिस्रजामिति । तदेतत्सूत्रकारः स्पष्टीचकार – "अपो दीक्षायाः स्थाने द्वादशपुण्डरीकां स्रजं प्रतिमुञ्चते" इति । प्रतिमोचयेदित्यर्थः । तदेतत्प्रशंसति –

“जामि वा एतत्कुर्वन्ति । यत्सद्यो दीक्षयन्ति सद्यः सोमं क्रीणन्ति । पुण्डरिस्रजां प्रयच्छत्यजामित्वाय । अङ्गिरसः सुवर्गे लोकं यन्तः । अप्सु दीक्षातपसी प्रावेशयन् । तत्पुण्डरीकमभवत् । यत्पुण्डरिस्रजां प्रयच्छति । साक्षादेव दीक्षातपसी अवरुन्धे" [ब्रा॰ का॰१ प्र॰८ अ॰२] इति ।

चोदकप्राप्तानि हिरण्यवासःप्रभृतीनि दशविधक्रयद्रव्याण्यपवदितुं विधत्ते –

दशभिरिति । वत्सतरा उपरतस्तनपानाः । अत एव सूत्रकारो विशिनष्टि –

“दशभिर्वत्सतरैः सोमं क्रीणाति" इति । अत्र संख्यां प्रशंसति –

“दशभिर्वत्सतरैः सोमं क्रीणाति । दशाक्षरा विराट् (१) । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे" [ब्रा॰ का॰१ प्र॰८ अ॰२] इति ।

साण्डत्वं विधाय प्रशंसति –

“मुष्करा भवन्ति सेन्द्रत्वाय" [ब्रा॰ का॰१ प्र॰८ अ॰२] इति । सेन्द्रत्वमिन्द्रियसामर्थ्यसहितत्वम् । प्रधानं कर्म विधत्ते –

दशपेय इति । दशसु वैकृतचमसेषु पातव्यः सोमरसो यस्मिन्क्रतौ स क्रतुर्दशपेयः । यद्वा – एकैकस्मिन्पात्रे दशभिर्ब्राह्मणैः पातव्यः सोमो यस्मिन्स दशपेयः । एतदेवाभिप्रेत्य सूत्रकार आह – "श्वोभूते पात्रसंसादनकाले दश चमसानधिकान्प्रयुनक्ति तानुन्नयनकाल उन्नयति भक्षणकाले दश दशैकैकस्मिंश्चमसे ब्राह्मणाः सोमपाः सोमं भक्षयन्ति" इति । तं विधिं प्रशंसति –

“दशपेयो भवति । अन्नाद्यस्यावरुद्ध्यै" [ब्रा॰ का॰१ प्र॰८ अ॰२] इति । विधत्ते –

शतमिति । एकैकस्मिन्पात्रे दश दश ब्राह्मणा इति मिलित्वा शतं ब्राह्मणाः पिबन्ति । प्रशंसति –

“शतं ब्राह्मणाः पिबन्ति । शतायुः पुरुषः शतेन्द्रियः । आयुष्येवेन्द्रिये प्रतितिष्ठति" [ब्रा॰ का॰१ प्र॰८ अ॰२] इति । विधत्ते –

सप्तदशमिति । अस्मिन्क्रतौ यद्यत्स्तोत्रं तस्य सर्वस्य सप्तदशस्तोमत्वमेव कुर्यात् । प्रशंसति –

“सप्तदश स्तोत्रं भवति । सप्तदशः प्रजापतिः (२) । प्रजापतेराप्त्यै" [ब्रा॰ का॰१ प्र॰८ अ॰२] इति । विधत्ते –

प्राकाशाविति । प्राकाशौ सुवर्णदर्पणौ । प्रशंसति –

“प्राकाशावध्वर्यवे ददाति । प्रकाशमेवैनं गमयति" [ब्रा॰ का॰१ प्र॰८ अ॰२] इति । हिरण्यस्रजो दानं विधत्ते –

स्रजमिति । तथा च सूत्रकारः – "दक्षिणाकाले हिरण्यप्राकाशावध्वर्यवे ददाति हिरण्यस्रजमुद्गात्रे" इति । प्रशंसति –

“स्रजमुद्गात्रे । व्येवास्मै वासयति" [ब्रा॰ का॰१ प्र॰८ अ॰२] इति ।

अस्य यजमानस्य व्येव विशिष्टमेव दुकूलादिकं वासयति उत्तरीयत्वेनाऽऽच्छादयति । वर्तुलस्य स्वर्णाभरणस्य दानं विधत्ते –

रुक्ममिति । प्रशंसति –

“रुक्म होत्रे । आदित्यमेवास्मा उन्नयति" [ब्रा॰ का॰१ प्र॰८ अ॰२] इति । उदयं प्रापयतीत्यर्थः । विधत्ते –

अश्वमिति । ददातीत्यनुषज्यते । द्वाभ्यामेकद्रव्यदानं वाचनिकम् । प्रशंसति –

“अश्वं प्रस्तोतृप्रतिहर्तृभ्याम् । प्राजापत्यो वा अश्वः । प्रजापतेराप्त्यै (३)" । [ब्रा॰ का॰१ प्र॰८ अ॰२] इति ।

अश्वमेधप्रकरणे प्रजापतेरक्ष्यश्वयत्तत्परापतदिति श्रुतेरश्वस्य प्राजापत्यत्वम् ।

बालगर्भिणीनां गवां दानं विधत्ते –

द्वादशेति । वत्सद्वाराऽभिवृद्धिसूचनादायुष्याभिवृद्ध्या प्रशंसति –

“द्वादश पष्ठौहीर्ब्रह्मणे । आयुरेवावरुन्धे" [ब्रा॰ का॰१ प्र॰८ अ॰२] इति । वन्ध्याया गोर्दानं विधत्ते –

वशामिति । वशाशब्देन बुद्धिस्थं वशित्वमभिप्रेत्य प्रशंसति –

“वशां मैत्रावरुणाय । राष्ट्रमेव वश्यकः" [ब्रा॰ का॰१ प्र॰८ अ॰२] इति । रेतःसेचनसमर्थस्य गोर्दानं विधत्ते –

ऋषभमिति । ऋषभशब्देन बुद्धिस्थमिन्द्रियमित्यभिप्रेत्य प्रशंसति –

“ऋषभं ब्राह्मणाच्छसिने । राष्ट्रमेवेन्द्रियाव्यकः" [ब्रा॰ का॰१ प्र॰८ अ॰२] इति । द्वाभ्यां प्रत्येकं वस्त्रदानं विधत्ते –

वाससी इति । धौतवस्त्रयोः शुद्धिहेतुत्वमभिप्रेत्य प्रशंसति –

“वाससी नेष्टापोतृभ्याम् । पवित्रे एवास्यैते" [ब्रा॰ का॰१ प्र॰८ अ॰२] इति । स्थूलस्य यवपूर्णशकटस्य दानं विधत्ते –

स्थूरि यवाचितमिति । वारुणं यवमयं चरुमिति श्रुतत्वाद्यवप्रियं वरुणं स्वकीयभागप्रदानेन स्वकीयदेशान्ताद्बहिर्निःसारितवान्भवतीत्यभिप्रेत्य प्रशंसति –

“स्थूरि यवाचितमच्छावाकाय । अन्तत एव वरुणमवयजते (४)"। [ब्रा॰ का॰१ प्र॰८ अ॰२] इति । विधत्ते –

अनड्वाहमिति । वह्निद्वारकेणोभयोः संबन्धेन प्रशंसति –

“अनड्वाहमग्नीधे । वह्निर्वा अनड्वान् । वह्निरग्नीत् । वह्निनैव वह्नि यज्ञस्यावरुन्धे” [ब्रा॰ का॰१ प्र॰८ अ॰२] इति ।

दर्शपूर्णमासयोराग्नेयहविर्युक्तस्य शकटस्य वहनादनड्वान्वह्निः । अग्नेरिन्धनादाग्नीध्रोऽपि वह्निः । उभयोः संबन्धे सति वह्निरूपेणानुडुहा यज्ञस्य वह्नि वाहकमाग्नीध्राद्यृत्विग्जातं स्वाधीनं करोति ।

चोदकप्राप्तं होतृसामान्यादिकं बाधितुं विशेषान्विधत्ते –

भार्गवो होतेति । प्रकृतौ यः कोऽपि होतेत्यत्रापि तत्प्राप्तौ भृगुगोत्रोत्पन्न एवेति विशेष्यते । प्रकृतौ ब्राह्मणाच्छंसिनं प्रत्याज्यस्तोत्रे गायत्रसाम्नो विहितत्वात्तदपवादाय श्रायन्तीयं सामात्र विधीयते । श्रायन्त इव सूर्यमित्यस्यामृच्युत्पन्नं साम श्रायन्तीयम् । प्रकृतौ यज्ञायज्ञियस्याग्निष्टोमसामत्वात्तदपोद्य वारवन्तीयं साम विधीयते । अश्वं न त्वा वारवन्तमित्यस्यामृच्युत्पन्नं वारवन्तीयं साम । प्रकृतौ वहन्तीनां गृह्णातीति प्रवाहमात्रगतानामपां वसतीवरित्वादत्रापि तत्प्राप्तौ सरस्वतीगता एवाऽऽपो विधीयन्ते । इन्द्रवीर्यत्वेन त्रयं प्रशंसति –

“इन्द्रस्य सुषुवाणस्य त्रेधेन्द्रियं वीर्ये परापतत् । भृगुस्तृतीयमभवत् । श्रायन्तीयं तृतीयम् । सरस्वती तृतीयम् । भार्गवो होता भवति । श्रायन्तीयं ब्रह्मसामं भवति । वारवन्तीयमग्निष्टोमसामम् । सारस्वतीरपो गृह्णाति । इन्द्रियस्य वीर्यस्यावरुद्ध्यै" [ब्रा॰ का॰१ प्र॰८ अ॰२] इति ।

वारवन्तीयस्येन्द्रवीर्यत्वाभावेनात्र स्तुतेरप्रतीतत्वात्तेन सह स्तोतुं श्रायन्तीयमपि पुनरुपादत्ते –

“श्रायन्तीयं ब्रह्मसामं भवति । इन्द्रियमेवास्मिन्वीर्य श्रयति । वारवन्तीयमग्निष्टोमसामम् । इन्द्रियमेवास्मिन्वीर्यं वारयति (५)"। [ब्रा॰ का॰१ प्र॰८ अ॰२] इति ।

सामनाम्नि श्रयतिधातोः प्रतीतत्वाद्यजमानेन वीर्यमाश्रीयते । द्वितीयनाम्नि वारयितृत्वप्रतीतेरस्मिन्यजमाने प्रयुक्तं वैरिवीर्यं निवारितं भवति ।

अत्र मीमांसा ।

एकादशाध्यायस्य द्वितीयपादे चिन्तितम् –

दशपेये चाभिषेचनीये तन्त्रं भिदाऽथवा । क्रयसाहित्यतस्तन्त्रं कालभेदेन भिन्नता ॥

राजसूये दशपेयाभिषेचनीयसंज्ञकौ द्वौ सोमयागौ । तयोरङ्गानुष्ठानं तन्त्रेण कार्यम् । कुतः । क्रयस्याभिन्नत्वात् । 'सह सोमौ क्रीणाति' [इति] अभिषेचनीयस्य यदा सोमक्रयस्तदैव दशपेयस्यापि सोमे क्रेतव्ये सति क्रयात्पूर्वभाविनां दशपेयाङ्गानामपकर्षात्तन्त्रं स्यादिति प्राप्ते ब्रूमः – भिन्नकालीनयोरभिषेचनीयदशपेययोरङ्गानां भेदो युक्तः । संसृप्शब्दवाच्याभ्यो दशभ्य इष्टिभ्य ऊर्ध्वमपराह्णे दशपेयस्योपक्रमः । ताभ्यः प्राचीनेऽत्यन्तव्यवहिते कालेऽभिषेचनीयः । न च क्रयसाहित्यमस्ति । 'सद्यो दीक्षयन्ति सद्यः सोमं क्रीणन्ति' इति दशपेये क्रयस्य सद्यस्कालत्वाभिधानात् । सह सोमावितिवचनेन क्रयार्थसंवादे साहित्यं विवक्षितम् । तस्मादुभयोरङ्गानां भेदः ।

तृतीयाध्यायस्य पञ्चमपादे चिन्तितम् –

राजसूये क्कचित्कर्तुश्चमसो दशभिर्जनैः । भक्ष्यः किं तत्र राजन्या भक्षका ब्राह्मणा उत ॥

आद्यो भागा(ना)त्संख्ययैकजातेर्विप्राः शतं दश । चमसानद्युरित्युक्त्या राजपात्रं च विप्रगम् ॥

राजसूये दशपेयनामके यागे श्रुयते – "दश दशैकैकं चमसमनुसर्पन्ति" इति । तत्र यजमानस्य राजन्यस्य यश्चमसः सोऽयं राजन्यैरेव दशभिर्भक्षणीयः । दशेतिसंख्या(ख्य)या जात्येकत्वप्रतिभानात् । तथा हि – दशपेयस्य ज्योतिष्टोमविकृतित्वात्प्रकृतं धर्मजातं चादकेन प्राप्तम् । प्रकृतौ च यजमानचमसस्य भिन्नजातिभिर्भक्षणं नास्तीत्यत्रापि तथैव प्राप्तम् । यद्यत्र दशेति विशेषो विधीयते तर्हि प्राकृतं भक्षकसंख्यामात्रं निवर्त्यतां न त्वेकजातीयत्वम् । तस्माद्राजन्यो यजमानो राजन्यैर्नवभिः सह भक्षयेदिति प्राप्ते ब्रूमः – प्रकृतितः प्राप्तेषु दशसु चमसेषु भक्षणायानुसर्पतां पुरुषाणां दश दशेतिवीप्सया प्रतिचमसं दशसंख्यां विधायार्थसिद्धां शतसंख्यामनूद्य संख्येयानां सर्वेषां ब्राह्मण्यं विधीयते – "शतं ब्राह्मणाः पिबन्ति" इति । तथा सति यजमानस्यापि राजन्यस्य यत्र भक्षो नास्ति तत्र कुतोऽन्ये राजन्या भक्षयेयुः । तस्माद्ब्राह्मणा एव भक्षकाः ।

दशमाध्यायस्य तृतीयपादे चिन्तितम् –

किं प्राकाशौ बाधकौ स्तः कृत्स्नस्याऽऽध्वर्यवस्य वा । ददातियोगात्कृत्स्नस्य न विशिष्टेन योगतः ॥

राजसूये श्रूयते – "हिरण्यमयौ प्राकाशावध्वर्यवे ददाति" इति । प्राकाशौ दीपस्तम्भावित्येके । दर्पणावित्यपरे । तौ किं प्राकृतस्य दक्षिणाद्रव्यस्य बाधकौ, उताध्वर्युभागस्यैव । तत्र प्राकाशौ ददातीति कर्मकारकवाचिद्वितीयाश्रुतिकृतेन दानसंबन्धेन प्राकाशावध्वर्यव इतिवाक्यकृते पुरुषसंबन्धेऽपोदिते सति देयद्रव्यप्रतीतेर्देयान्तरस्य कृत्स्नस्य बाध इति पूर्वः पक्षः । अध्वर्यवे ददातीति संप्रदानकारकवाचिचतुर्थीश्रुतिकृतस्य दानक्रियासंबन्धस्यापवदितुमशक्यत्वात्संप्रदानविशिष्टदानक्रियासंबन्धेऽपि द्वितीयाश्रुतेरविरोधादध्वर्युभागस्यैव बाध इति राद्धान्तः ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ दशपेयस्य तन्त्रविशेषान् कांश्चिद्विदधाति - सद्यो दीक्षयन्तीत्यादि ॥ सद्यस्समानेऽह्नि । 'सद्यःपरुत्' इति निपात्यते । दीक्षाया यद्भवति, सोमक्रयस्य च यद्भवति सर्वं समानेऽह्नि कुर्यात् । अशक्यं लुप्यते, शक्यं क्रियते, एतदुक्तं भवति - एका दीक्षा, तिस्र उपसदः । तत्र द्वादश्यां वारुणयागानन्तरं दशपेयेन दीक्षा इत्यादि प्रथमोपसदं तदहरेव कुर्युरिति । सोमपरिवेषणं परिलुप्यते । दीक्षणीयां कृत्वा वपनदन्तधावनतूष्णींस्नानानि क्रियन्ते । 'आपो अस्मान्' इति स्नानमारभ्य यदपवदितव्यं तस्य स्थाने श्रुतिरेवापवादं विदधाति - पुण्डरिस्रजामिति । पुण्डरीकं पद्मम् । छान्दसो वर्णविकारः, पर्यायान्तरं वा । द्वादशपुणडरीकां स्रजं प्रतिमुञ्चते यजमानस्य शरीरे बध्नाति तूष्णीम् । 'अच्' इति योगविभागात्समासान्तः । 'अङ्गिरसस्सुवर्गं लोकं यन्तः । अप्सु दीक्षान्तपसी प्रावेशयन् । तत्पुण्डरीकमभवत्' इत्यादि ब्राह्मणम्, 'अथास्मै क्षौममहतं' इत्यादि आसनीहारप्रस्थापनदीक्षात् । दीक्षाव्रतं प्रायणीयक्रियया क्रियते । 'प्रायणीयाया ध्रौवादष्टौ' इत्यादेः 'तत्सा गृहेषु निदधाति' इत्यन्तस्य लोपः । अभिषेचनीय एव दशपेयार्थं विक्रयस्य कृतत्वात् 'देवसूर्य' इत्यादि 'प्रजाभ्यस्त्वा' इत्यन्तो लुप्यते; पूर्वक्रीतत्वात् ॥
2 अथ क्रमविशेपमाह - दशभिर्वत्सतरैरिति ॥ पूर्वमेव क्रीतं पुरोहितगृहं गतं सोमं फलेन सहाहत्य 'क्षौमेण वाससोपसङ्गृह्य' इत्यादि विस्रंसनान्तं कृत्वा सोमविक्रयेण प्रदाय दशभिर्वत्सतरैः क्रीणाति । द्वितीयं वयः प्राप्नुवन्तो वत्सतराः । 'वत्सोक्षाश्व' इति ष्टरच् । दश वत्सतरान् सोमविक्रयिणे दक्षिणां दत्वा 'अस्मे ज्योतिः' इत्यादि कृत्वाऽऽदत्ते सोमम् । 'मित्रो न एहि' इत्यादि लुप्यते । 'वनेषु व्यन्तरिक्षम्' इत्यादि कुर्यात् । ततो हस्तेन राज्ञो नयनमाप्राग्वंशात् । प्राग्वंशसमीपे यत्र कुत्रचित् सोमफले स्थापयित्वाऽऽतिथ्यं कुर्यात् । आतिथ्यान्तरं सौर्येण चरुणेष्ट्वा पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्य, तदहरेवापराह्णिकीभ्यां प्रचर्य विरामः; एवं प्रथमोपसदन्तमहस्सन्तिष्ठते । दशपेयो भवतीति । एकैकस्मिन् चमसे दशदश ब्राह्मणास्सोमं पिबन्ति यस्मिन् स दशपेयः । अधिकरणे 'अचो यत्' इति यत्, 'ईद्यति' इतीत्वं, कृदुत्तरपदप्रकृतिस्वरत्वे 'यतो नावः' इत्याद्युदात्तत्वम्, सप्तपर्णादिवद्वीप्साद्यर्थलाभः । पात्रसंसादनकाले प्राकृतेभ्योऽतिरिक्ता दश चमसाः प्रयोक्तव्याः, उन्नयनकाले चोन्नेतव्या इति शतं ब्राह्मणाः पिबन्तीति । यत एवं चमसेचमसे दशदश ब्राह्मणः पिबन्ति, तस्मात्संहत्य शतं सोमस्य पातारस्सन्तीत्यर्थः । एतेन दशपेयार्थे वीप्सां द्योतयति । ब्राह्मणग्रहणं विशिष्टब्राह्मणपरिग्रहार्थम् । तेन सोमयाजिनः आदशमात्पुरुषादविच्छिन्नसोमपीथाः विद्यावन्तस्त्रैविद्यवृद्धा वा मीमांसादिशास्त्राभियुक्ता वाकोवाक्येतिहासादिपुराणादिज्ञाः कृच्छ्रचान्द्रायणादितपोनिष्ठाः पवित्रार्थेष्टियज्ञक्रतूनामाहर्तारश्च ब्राह्मणाः पातारो वेदितव्याः । सप्तदशं स्तोत्रं भवतीति । सप्तदशस्तोत्रीयाः परिमाणमस्य सप्तदशम् । इदमेव स्तोत्रं स्तोमो भवति । अनुब्राह्मणं च भवति 'सप्तदशो दशपेयः' इति ॥
3 प्राकाशावित्यादि ॥ सौवर्णं दर्पणद्वयमध्वर्यवे ददाति । प्रकाशन्तेऽत्र रूपाणीति प्रकाशः । अधिकरणे घञ्, 'उपसर्गस्य घञ्यमनुष्ये' इति दीर्घश्छान्दसो वा, थाथादिनोत्तरपदान्तोदात्तत्वम् । स्रजमित्यादि । अत्रापि हिरण्यस्रजमुद्गात्रे ददाति । रुक्ममिति । रुक्मं रुचकम् । हिरण्यमिति केचित् । अश्वमिति गतम् । द्वादशेति । चतुर्वर्षास्स्त्रीगवीः । पष्ठं वहन्तीति 'वहेश्च' इति ण्विः, 'वाहः' इति ङीष्, 'वाह ऊठ्' 'एत्येधत्यूठ्सु' इति वृद्धिः । द्वौ च दश च द्वादश । 'अष्टनस्सङ्ख्यायाम्' इत्यात्वम्, 'सङ्ख्या' इति पूर्वपदप्रकृतिस्वरत्वम् । वशा वन्ध्या । ऋषभः खेलगतिः । ब्राह्मणादाहृत्य शंसति ब्राह्मणानि शंसति वा ब्राह्मणाच्छंसीति । 'सुप्यजातौ णिनिः', 'ब्राह्मणाच्छंसिन उपसङ्ख्यानम्' इति पञ्चम्या अलुक् । पक्षान्तरे छान्दसो दुगागमः । नेष्टा च पोता च नेष्टापोतारौ । 'आनङृतो द्वन्द्वे' इत्यानङ् । स्थूरीति । स्थूरिः पष्ठवाट् । तत्साधर्म्याद्गोयुक्तो रथ उच्यते । यवाचितं यवा अस्मिन्नाचीयन्ते यवैर्वा आचितमिति शकटमुच्यते । 'संज्ञायामनाचितादीनाम्' इत्युत्तरपदान्तोदात्तत्वं व्यत्ययेन प्रवर्तते । अच्छाभिमुख्येन ब्रवीतीत्यच्छावाकः । 'हलश्च' इति संज्ञायां घञ्, छान्दसो दीर्घः । अनड्वाहमिति । अनो वहतीत्यनड्वान् । पृषोदरादिः । अग्निमिन्ध इत्यग्नीत् । भार्गव इति । ऋत्विग्वरण एव भार्गवः भृगोरपत्यं तत्र वरितव्यः । श्रायन्तीयमिति । ब्रह्मणस्साम ब्रह्मसामम् । पूर्ववदच् । श्रायन्तीयं भवति 'श्रायन्त सूर्यम्' इत्यस्यामृचि गेयं भवति । श्रायन्तशब्दोस्मिन्नस्तीति श्रायन्तीयं साम । 'मतौ छस्सूक्तसाम्नोः' इति छः । वारवन्तीयमिति । अग्निष्टोमस्य सामाग्निष्टोमसामं, येनाग्निष्टोमस्सन्तिष्ठते । पूर्ववदच् । तद्वारवन्तीयं भवपि । 'अश्वं न त्वा वारवन्तम्' इत्यस्यामृचि गेयं भवति । वारवन्तमित्यस्मात्पूर्ववन्मत्वर्थे छः । सारस्वतीरिति । सरस्वतीनाम नदी । तदीया अपो वसतीवरीर्गृह्णाति, यदा सरस्वत्यास्समीपे यजते । इतरथा सरस्वतीजलमाहृत्य बहुयाजिकुम्भस्थं गृह्णातीत्याहुः । 'ऊडिदम्' इत्यद्भ्यो द्वितीयाया उदात्तत्वम् ॥

इत्यष्टमेऽष्टादशोऽनुवाकः ॥