पात्रे॒ चतुः॑स्रक्तौ स्वयमवप॒न्नायै॒ शाखा॑यै क॒र्णाꣳश्चाक॑र्णाꣳश्च तण्डु॒लान् वि चि॑नुयाद् येक॒र्णाः स प॑यसि बार्.हस्प॒त्यो येऽक॑र्णाः॒ स आज्ये॑ मै॒त्रः स्व॑यंकृ॒ता वेदि॑र् भवति स्वयन्दि॒॒नं ब॒र्॒.हिः स्व॑यंकृ॒त इ॒द्ध्मः सैव श्वे॒ता श्वे॒तव॑थ्सा॒ दक्षि॑णा ॥
पदपाठः (Word-by-word)
पात्रे᳚ । चतुः॑स्रक्ता॒विति॒ चतुः॑ - स्र॒क्तौ॒ । स्व॒य॒म॒व॒प॒न्नाया॒ इति॑ स्वयं-अ॒व॒प॒न्नायै᳚ । शाखा॑यै । क॒र्णान् । च॒ । अक॑र्णान् । च॒ । त॒ण्डु॒लान् । वीति॑ । चि॒नु॒या॒त् । ये । क॒र्णाः । सः । पय॑सि । बा॒र्.॒ह॒स्प॒त्यः । ये । अक॑र्णाः । सः । आज्ये᳚ । मै॒त्रः । स्व॒य॒कृं॒तेति॑ स्वयम् - कृ॒ता । वेदिः॑ । भ॒व॒ति॒ । स्व॒य॒दिं॒नमिति॑ स्वयं - दि॒नम् । ब॒र्॒.हिः । स्व॒य॒कृं॒त इति॑ स्वयं - कृ॒तः । इ॒द्ध्मः । सा । ए॒व । श्वे॒ता । श्वे॒तव॒थ्सेति॑ श्वे॒त - व॒थ्सा॒ । दक्षि॑णा ॥