प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.1.10.2 TS 7.1.10.2
य ए॒वं ॅवि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णाऽऽ* व॑र्तते॒ सार्व॑सेनिः शौचे॒यो॑ऽकामयत पशु॒मान्थ् स्या॒मिति॒ स ए॒तं प॑ञ्चरा॒त्रमाऽह॑र॒त् तेना॑ऽयजत॒ ततो॒ वै स स॒हस्रं॑ प॒शून् प्राऽऽ*प्नो॒द्य ए॒वं ॅवि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते॒ प्र स॒हस्रं॑ प॒शूना᳚प्नोति बब॒रः प्रावा॑हणि-रकामयत वा॒चः प्र॑वदि॒ता स्या॒मिति॒ स ए॒तं प॑ञ्चरा॒त्रमा - [ ]
पदपाठः (Word-by-word)
यः । ए॒वम् । वि॒द्वान् । प॒ञ्च॒रा॒त्रेणेति॑ पञ्च-रा॒त्रेण॑ । यज॑ते । वीति॑ । पा॒प्मना᳚ । भ्रातृ॑व्येण । एति॑ । व॒र्त॒ते॒ । सार्व॑सेनि॒रिति॒ सार्व॑ - से॒निः॒ । शौ॒चे॒यः । अ॒का॒म॒य॒त॒ । प॒शु॒मानिति॑ पशु - मान् । स्या॒म् । इति॑ । सः । ए॒तम् । प॒ञ्च॒रा॒त्रमिति॑ पञ्च - रा॒त्रम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । सः । स॒हस्र᳚म् । प॒शून् । प्रेति॑ । आ॒प्नो॒त् । यः । ए॒वम् । वि॒द्वान् । प॒ञ्च॒रा॒त्रेणेति॑ पञ्च-रा॒त्रेण॑ । यज॑ते । प्रेति॑ । स॒हस्र᳚म् । प॒शून् । आ॒प्नो॒ति॒ । ब॒ब॒रः । प्रावा॑हणिः । अ॒का॒म॒य॒त॒ । वा॒चः । प्र॒व॒दि॒तेति॑ प्र - व॒दि॒ता । स्या॒म् । इति॑ । सः । ए॒तम् । प॒ञ्च॒रा॒त्रमिति॑ पञ्च - रा॒त्रम् । एति॑ ।
पदसंख्या: 50