ऽह॑र॒त् तेना॑यजत॒ ततो॒ वै स वा॒चः प्र॑वदि॒ताऽभ॑व॒द्य ए॒वं ॅवि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते प्रवदि॒तैव वा॒चो भ॑व॒त्यथो॑ एनं ॅवा॒चस्पति॒-रित्या॑हु॒रना᳚प्त-श्चतूरा॒त्रोऽति॑रिक्तः षड्-रा॒त्रोऽथ॒ वा ए॒ष स॑प्रं॒ति य॒ज्ञो यत् प॑ञ्चरा॒त्रो य ए॒वं ॅवि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते संप्र॒त्ये॑व य॒ज्ञेन॑ यजते पञ्चरा॒त्रो भ॑वति॒ पञ्च॒ वा ऋ॒तवः॑ संॅवथ्स॒र - [ ]
पदपाठः (Word-by-word)
अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । सः । वा॒चः । प्र॒व॒दि॒तेति॑ प्र - व॒दि॒ता । अ॒भ॒व॒त् । यः । ए॒वम् । वि॒द्वान् । प॒ञ्च॒रा॒त्रेणेति॑ पञ्च - रा॒त्रेण॑ । यज॑ते । प्र॒व॒दि॒तेति॑ प्र - व॒दि॒ता । ए॒व । वा॒चः । भ॒व॒ति॒ । अथो॒ इति॑ । ए॒न॒म् । वा॒चः । पतिः॑ । इति॑ । आ॒हुः॒ । अना᳚प्तः । च॒तू॒रा॒त्र इति॑ चतुः - रा॒त्रः । अति॑रिक्त॒ इत्यति॑ - रि॒क्तः॒ । ष॒ड्रा॒त्र इति॑ षट् - रा॒त्रः । अथ॑ । वै । ए॒षः । स॒प्रं॒तीति॑ सं - प्र॒ति । य॒ज्ञ्ः । यत् । प॒ञ्च॒रा॒त्र इति॑ पञ्च - रा॒त्रः । यः । ए॒वम् । वि॒द्वान् । प॒ञ्च॒रा॒त्रेणेति॑ पञ्च - रा॒त्रेण॑ । यज॑ते । स॒म्प्र॒तीति॑ सं - प्र॒ति । ए॒व । य॒ज्ञेन॑ । य॒ज॒ते॒ । प॒ञ्च॒रा॒त्र इति॑ पञ्च - रा॒त्रः । भ॒व॒ति॒ । पञ्च॑ । वै । ऋ॒तवः॑ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।