ऋ॒तुष्वे॒व सं॑ॅवथ्स॒रे प्रति॑ तिष्ठ॒त्यथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञ्मे॒वाव॑ रुन्धे त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुन्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्या-व॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायते पञ्चविꣳ॒॒शो᳚ ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑-न॒न्नाद्य॒स्या-व॑रुद्ध्यै विश्व॒जिथ् सर्व॑पृष्ठो-ऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ( ) ॥
पदपाठः (Word-by-word)
ऋ॒तुषु॑ । ए॒व । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अथो॒ इति॑ । पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । प॒ङ्क्तिः । पाङ्क्तः॑ । य॒ज्ञ्ः । य॒ज्ञ्म् । ए॒व । अवेति॑ । रु॒न्धे॒ । त्रि॒वृदिति॑ त्रि - वृत् । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । भ॒व॒ति॒ । तेजः॑ । ए॒व । अवेति॑ । रु॒न्धे॒ । प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । भ॒व॒ति॒ । इ॒न्द्रि॒यम् । ए॒व । अवेति॑ । रु॒न्धे॒ । स॒प्त॒द॒श इति॑ सप्त - द॒शः । भ॒व॒ति॒ । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । अथो॒ इति॑ । प्रेति॑ । ए॒व । तेन॑ । जा॒य॒ते॒ । प॒ञ्च॒विꣳ॒॒श इति॑ पञ्च - विꣳ॒॒शः । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । भ॒व॒ति॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा-प॒तेः॒ । आप्त्यै᳚ । म॒हा॒व्र॒तवा॒निति॑ महाव्र॒त-वा॒न् । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । वि॒श्व॒जिदिति॑ विश्व - जित् । सर्व॑पृष्ठ॒ इति॒ सर्व॑ - पृ॒ष्ठः॒ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । भ॒व॒ति॒ । सर्व॑स्य । अ॒भिजि॑त्या॒ इत्य॒भि-जि॒त्यै॒ ( ) ॥