ॅव्यवै᳚र्यत॒ तस्मा᳚द्-रु॒द्रा घातु॑का अनायत॒ना हि तस्मा॑दाहुः शिथि॒लं ॅवै म॑द्ध्य॒म-मह॑स्त्रिरा॒त्रस्य॒ वि हि तद॒वैर्य॒तेति॒ त्रैष्टु॑भं मद्ध्य॒मस्याह्न॒ आज्यं॑ भवति सं॒ॅयाना॑नि सू॒क्तानि॑ शꣳसति षोड॒शिनꣳ॑ शꣳस॒त्यह्नो॒ धृत्या॒ अशि॑थिलंभावाय॒ तस्मा᳚त् त्रिरा॒त्रस्या᳚ग्निष्टो॒म ए॒व प्र॑थ॒ममहः॑ स्या॒दथो॒क्थ्यो ऽथा॑ऽतिरा॒त्र ए॒षां ॅलो॒कानां॒ ॅविधृ॑त्यै॒ त्रीणि॑त्रीणि श॒ता-न्य॑नूचीना॒ह-मव्य॑वच्छिन्नानि ददा - [ ]
पदपाठः (Word-by-word)
व्यवै᳚र्य॒तेति॑ वि - अवै᳚र्यत । तस्मा᳚त् । रु॒द्राः । घातु॑काः । अ॒ना॒य॒त॒ना इत्य॑ना - य॒त॒नाः । हि । तस्मा᳚त् । आ॒हुः॒ । शि॒थि॒लम् । वै । म॒द्ध्य॒मम् । अहः॑ । त्रि॒रा॒त्रस्येति॑ त्रि - रा॒त्रस्य॑ । वीति॑ । हि । तत् । अ॒वैर्य॒तेत्य॑व - ऐर्य॑त । इति॑ । त्रैष्टु॑भम् । म॒द्ध्य॒मस्य॑ । अह्नः॑ । आज्य᳚म् । भ॒व॒ति॒ । सं॒ॅयाना॒निति॑ सम् - याना॑नि । सू॒क्तानीति॑ सु - उ॒क्तानि॑ । शꣳ॒॒स॒ति॒ । षो॒ड॒शिन᳚म् । शꣳ॒॒स॒ति॒ । अह्नः॑ । धृत्यै᳚ । अशि॑थिलम्भावा॒येत्यशि॑थिलं - भा॒वा॒य॒ । तस्मा᳚त् । त्रि॒रा॒त्रस्येति॑ त्रि - रा॒त्रस्य॑ । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । ए॒व । प्र॒थ॒मम् । अहः॑ । स्या॒त् । अथ॑ । उ॒क्थ्यः॑ । अथ॑ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । ए॒षाम् । लो॒काना᳚म् । विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । त्रीणि॑त्री॒णीति॒ त्रीणि॑ - त्री॒णि॒ । श॒तानि॑ । अ॒नू॒ची॒ना॒हमित्य॑नूचीन - अ॒हम् । अव्य॑वच्छिन्ना॒नीत्यवि॑ - अ॒व॒च्छि॒न्ना॒नि॒ । द॒दा॒ति॒ ।