प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.1.6.2 TS 7.1.6.2
परि॑ पश्या॒मोऽꣳश॒मा ह॑रामहा॒ इति॒ तस्या॒मꣳश॒माऽह॑रन्त॒ ताम॒फ्सु प्राऽवे॑शय॒न्थ् सोमा॑यो॒देहीति॒ सा रोहि॑णी पिङ्ग॒लैक॑हायनी रू॒पं कृ॒त्वा त्रय॑स्त्रिꣳशता च त्रि॒भिश्च॑ श॒तैः स॒होदैत् तस्मा॒द्-रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोमं॑ क्रीणीया॒द्य ए॒वं ॅवि॒द्वान् रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोमं॑ क्री॒णाति॒ त्रय॑स्त्रिꣳशता चै॒वास्य॑ त्रि॒भिश्च॑ - [ ]
पदपाठः (Word-by-word)
परीति॑ । प॒श्या॒मः॒ । अꣳश᳚म् । एति॑ । ह॒रा॒म॒है॒ । इति॑ । तस्या᳚म् । अꣳश᳚म् । एति॑ । अ॒ह॒र॒न्त॒ । ताम् । अ॒फ्स्वित्य॑प् - सु । प्रेति॑ । अ॒वे॒श॒य॒न्न् । सोमा॑य । उ॒देहीत्यु॑त् - एहि॑ । इति॑ । सा । रोहि॑णी । पि॒ङ्ग॒ला । एक॑हाय॒नीत्येक॑ - हा॒य॒नी॒ । रू॒पम् । कृ॒त्वा । त्रय॑स्त्रिꣳश॒तेति॒ त्रयः॑ - त्रिꣳ॒॒श॒ता॒ । च॒ । त्रि॒भिरिति॑ त्रि - भिः । च॒ । श॒तैः । स॒ह । उ॒दैदित्यु॑त् - ऐत् । तस्मा᳚त् । रोहि॑ण्या । पि॒ङ्ग॒लया᳚ । एक॑हाय॒न्येत्येक॑ - हा॒य॒न्या॒ । सोम᳚म् । क्री॒णी॒या॒त् । यः । ए॒वम् । वि॒द्वान् । रोहि॑ण्या । पि॒ङ्ग॒लया᳚ । एक॑हाय॒न्येत्येक॑ - हा॒य॒न्या॒ । सोम᳚म् । क्री॒णाति॑ । त्रय॑स्त्रिꣳश॒तेति॒ त्रयः॑ - त्रिꣳ॒॒श॒ता॒ । च॒ । ए॒व । अ॒स्य॒ । त्रि॒भिरिति॑ त्रि - भिः । च॒ ।
पदसंख्या: 50