प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.1.6.3 TS 7.1.6.3
श॒तैः सोमः॑ क्री॒तो भ॑वति॒ सुक्री॑तेन यजते॒ ताम॒फ्सु प्रावे॑शय॒-न्निन्द्रा॑यो॒देहीति॒ सा रोहि॑णी लक्ष्म॒णा प॑ष्ठौ॒ही वार्त्र॑घ्नी रू॒पं कृ॒त्वा त्रय॑स्त्रिꣳशता च त्रि॒भिश्च॑ श॒तैः स॒होदैत् तस्मा॒द् रोहि॑णीं ॅलक्ष्म॒णां प॑ष्ठौ॒हीं ॅवार्त्र॑घ्नीं दद्या॒द्य ए॒वं ॅवि॒द्वान् रोहि॑णीं ॅलक्ष्म॒णां प॑ष्ठौ॒हीं ॅवार्त्र॑घ्नीं॒ ददा॑ति॒ त्रय॑स्त्रिꣳशच्चै॒वास्य॒ त्रीणि॑ च श॒तानि॒ सा द॒त्ता - [ ]
पदपाठः (Word-by-word)
श॒तैः । सोमः॑ । क्री॒तः । भ॒व॒ति॒ । सुक्री॑ते॒नेति॒ सु-क्री॒ते॒न॒ । य॒ज॒ते॒ । ताम् । अ॒फ्स्वित्य॑प् - सु । प्रेति॑ । अ॒वे॒श॒य॒न्न् । इन्द्रा॑य । उ॒देहीत्यु॑त् - एहि॑ । इति॑ । सा । रोहि॑णी । ल॒क्ष्म॒णा । प॒ष्ठौ॒ही । वार्त्र॒घ्नीति॒ वार्त्र॑ - घ्नी॒ । रू॒पम् । कृ॒त्वा । त्रय॑स्त्रिꣳश॒तेति॒ त्रयः॑ - त्रिꣳ॒॒श॒ता॒ । च॒ । त्रि॒भिरिति॑ त्रि - भिः । च॒ । श॒तैः । स॒ह । उ॒दैदित्यु॑त् - ऐत् । तस्मा᳚त् । रोहि॑णीम् । ल॒क्ष्म॒णाम् । प॒ष्ठौ॒हीम् । वार्त्र॑घ्नी॒मिति॒ वार्त्र॑ - घ्नी॒म् । द॒द्या॒त् । यः । ए॒वम् । वि॒द्वान् । रोहि॑णीम् । ल॒क्ष्म॒णाम् । प॒ष्ठौ॒हीम् । वार्त्र॑घ्नी॒मिति॒ वार्त्र॑ - घ्नी॒म् । ददा॑ति । त्रय॑स्त्रिꣳश॒दिति॒ त्रयः॑ - त्रिꣳ॒॒श॒त् । च॒ । ए॒व॒ । अ॒स्य॒ । त्रीणि॑ । च॒ । श॒तानि॑ । सा । द॒त्ता ।
पदसंख्या: 50