प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.1.6.4 TS 7.1.6.4
भ॑वति॒ ताम॒फ्सु प्रावे॑शयन् य॒मायो॒देहीति॒ सा जर॑ती मू॒र्खा त॑ज्जघ॒न्या रू॒पं कृ॒त्वा त्रय॑स्त्रिꣳशता च त्रि॒भिश्च॑ श॒तैः स॒होदैत् तस्मा॒ज्जर॑तीं मू॒र्खां त॑ज्जघ॒न्या-म॑नु॒स्तर॑णीं कुर्वीत॒ य ए॒वं ॅवि॒द्वाञ्जर॑तीं मू॒र्खां त॑ज्जघ॒न्या-म॑नु॒स्तर॑णीं कुरु॒ते त्रय॑स्त्रिꣳशच्चै॒वास्य॒ त्रीणि॑ च श॒तानि॒ साऽमुष्मि॑ॅल्लो॒के भ॑वति॒ वागे॒व स॑हस्रत॒मी तस्मा॒ - [ ]
पदपाठः (Word-by-word)
भ॒व॒ति॒ । ताम् । अ॒फ्स्वित्य॑प् - सु । प्रेति॑ । अ॒वे॒श॒य॒न्न् । य॒माय॑ । उ॒देहीत्यु॑त् - एहि॑ । इति॑ । सा । जर॑ती । मू॒र्खा । त॒ज्ज॒घ॒न्येति॑ तत् - ज॒घ॒न्या । रू॒पम् । कृ॒त्वा । त्रय॑स्त्रिꣳश॒तेति॒ त्रयः॑-त्रिꣳ॒॒श॒ता॒ । च॒ । त्रि॒भिरिति॑ त्रि - भिः । च॒ । श॒तैः । स॒ह । उ॒दैदित्यु॑त् - ऐत् । तस्मा᳚त् । जर॑तीम् । मू॒र्खाम् । त॒ज्ज॒घ॒न्यामिति॑ तत् - ज॒घ॒न्याम् । अ॒नु॒स्तर॑णी॒मित्य॑नु - स्तर॑णीम् । कु॒र्वी॒त॒ । यः । ए॒वम् । वि॒द्वान् । जर॑तीम् । मू॒र्खाम् । त॒ज्ज॒घ॒न्यामिति॑ तत् - ज॒घ॒न्याम् । अ॒नु॒स्तर॑णी॒मित्यु॑नु - स्तर॑णीम् । कु॒रु॒ते । त्रय॑स्त्रिꣳश॒दिति॒ त्रयः॑ - त्रिꣳ॒॒श॒त् । च॒ । ए॒व । अ॒स्य॒ । त्रीणि॑ । च॒ । श॒तानि॑ । सा । अ॒मुष्मिन्न्॑ । लो॒के । भ॒व॒ति॒ । वाक् । ए॒व । स॒ह॒स्र॒त॒मीति॑ सहस्र - त॒मी । तस्मा᳚त् ।
पदसंख्या: 50