प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.1.6.5 TS 7.1.6.5
द्वरो॒ देयः॒ सा हि वरः॑ स॒हस्र॑मस्य॒ सा द॒त्ता भ॑वति॒ तस्मा॒द् वरो॒ न प्र॑ति॒गृह्यः॒ सा हि वरः॑ स॒हस्र॑मस्य॒ प्रति॑गृहीतं भवती॒यं ॅवर॒ इति॑ ब्रूया॒दथा॒न्यां ब्रू॑यादि॒यं ममेति॒ तथा᳚ऽस्य॒ तथ् स॒हस्र॒-मप्र॑तिगृहीतं भवत्युभयतए॒नी स्या॒त् तदा॑हुरन्यत ए॒नी स्या᳚थ् स॒हस्रं॑ प॒रस्ता॒देत॒मिति॒ यैव वरः॑ - [ ]
पदपाठः (Word-by-word)
वरः॑ । देयः॑ । सा । हि । वरः॑ । स॒हस्र᳚म् । अ॒स्य॒ । सा । द॒त्ता । भ॒व॒ति॒ । तस्मा᳚त् । वरः॑ । न । प्र॒ति॒गृह्य॒ इति॑ प्रति - गृह्यः॑ । सा । हि । वरः॑ । स॒हस्र᳚म् । अ॒स्य॒ । प्रति॑गृहीत॒मिति॒ प्रति॑ - गृ॒ही॒त॒म् । भ॒व॒ति॒ । इ॒यम् । वरः॑ । इति॑ । ब्रू॒या॒त् । अथ॑ । अ॒न्याम् । ब्रू॒या॒त् । इ॒यम् । मम॑ । इति॑ । तथा᳚ । अ॒स्य॒ । तत् । स॒हस्र᳚म् । अप्र॑तिगृहीत॒मित्यप्र॑ति - गृ॒ही॒त॒म् । भ॒व॒ति॒ । उ॒भ॒य॒त॒ए॒नीत्यु॑भयतः - ए॒नी । स्या॒त् । तत् । आ॒हुः॒ । अ॒न्य॒त॒ए॒नीत्य॑न्यतः - ए॒नी । स्या॒त् । स॒हस्र᳚म् । प॒रस्ता᳚त् । एत᳚म् । इति॑ । या । ए॒व । वरः॑ ।
पदसंख्या: 50