करोति रू॒पाणि॑ जुहोति रू॒पैरे॒वैनाꣳ॒॒ सम॑र्द्धयति॒ तस्या॑ उपो॒त्थाय॒ कर्ण॒मा ज॑पे॒दिडे॒ रन्तेऽदि॑ते॒ सर॑स्वति॒ प्रिये॒ प्रेय॑सि॒ महि॒ विश्रु॑त्ये॒तानि॑ ते अघ्निये॒ नामा॑नि सु॒कृतं॑ मा दे॒वेषु॑ ब्रूता॒दिति॑ दे॒वेभ्य॑ ए॒वैन॒मा वे॑दय॒त्यन्वे॑नं दे॒वा बु॑द्ध्यन्ते ॥
पदपाठः (Word-by-word)
क॒रो॒ति॒ । रू॒पाणि॑ । जु॒हो॒ति॒ । रू॒पैः । ए॒व । ए॒ना॒म् । समिति॑ । अ॒द्र्ध॒य॒ति॒ । तस्याः᳚ । उ॒पो॒त्थायेत्यु॑प - उ॒त्थाय॑ । कर्ण᳚म् । एति॑ । ज॒पे॒त् । इडे᳚ । रन्ते᳚ । अदि॑ते । सर॑स्वति । प्रिये᳚ । प्रेय॑सि । महि॑ । विश्रु॒तीति॒ वि - श्रु॒ति॒ । ए॒तानि॑ । ते॒ । अ॒घ्नि॒ये॒ । नामा॑नि । सु॒कृत॒मिति॑ सु - कृत᳚म् । मा॒ । दे॒वेषु॑ । ब्रू॒ता॒त् । इति॑ । दे॒वेभ्यः॑ । ए॒व । ए॒न॒म् । एति॑ । वे॒द॒य॒ति॒ । अन्विति॑ । ए॒न॒म् । दे॒वाः । बु॒द्ध्य॒न्ते॒ ॥