सह॒ वै दे॒वानां॒ चासु॑राणां च य॒ज्ञु प्रत॑तावास्तां ॅव॒यꣳ स्व॒र्गं ॅलो॒कमे᳚ष्यामो व॒यमे᳚ष्याम॒ इति॒ तेऽसु॑राः स॒न्नह्य॒ सह॑सै॒वाच॑रन् ब्रह्म॒चर्ये॑ण॒ तप॑सैव दे॒वास्तेऽसु॑रा अमुह्यꣳ॒॒स्ते न प्राजा॑नꣳ॒॒स्ते परा॑भव॒न्ते न स्व॒र्गं ॅलो॒कमा॑य॒न्, प्रसृ॑तेन॒ वै य॒ज्ञेन॑ दे॒वाः स्व॒र्गं ॅलो॒कमा॑य॒न् न प्रसृ॑ते॒नासु॑रा॒न् परा॑ऽभावय॒न् ,प्रसृ॑तो ह॒ वै य॑ज्ञोपवी॒तिनो॑ य॒ज्ञोऽप्र॑सृ॒तोऽनु॑पवी॒तिनो॒ यत्किञ्च॑ ब्राह्म॒णो य॑ज्ञोपवी॒त्यधी॑ते॒ यज॑त ए॒व तत् तस्मा᳚द् यज्ञोपवी॒त्ये॑वाधी॑यीत या॒जये॒द् यजे॑त वा य॒ज्ञ्स्य॒ प्रसृ॑त्या॒ , अजि॑नं॒ ॅवासो॑ वा दक्षिण॒त उ॑प॒वीय॒ दक्षि॑णं बा॒हुमुद्ध॑र॒तेऽव॑ धत्ते स॒व्यमिति॑ यज्ञोपवी॒तमे॒तदे॒व विप॑रीतं प्राचीनावी॒तꣳ स॒म्ॅवीतं॑ मानु॒षम् ।
कोर्वै (Index)
(णो खॊर्वै fऒर् थिस् आनुवाकम्)