अ॒जान्. ह॒ वै पृश्नीꣳ॑स्तप॒स्यमा॑ना॒न् ब्रह्म॑ स्वयं॒भ्व॑भ्यान॑र्.ष॒त्त ऋष॑योऽभव॒न् तदृषी॑णा-मृषि॒त्वं तां दे॒वता॒मुपा॑तिष्ठन्त य॒ज्ञ्का॑मा॒स्त ए॒तं ब्र॑ह्मय॒ज्ञ्-म॑पश्य॒न्-तमाऽह॑र॒न्-तेना॑यजन्त॒ यदृ॒चोऽद्ध्यगी॑षत॒ ताः पय॑ आहुतयो दे॒वाना॑मभव॒न्॒. यद्-यजूꣳ॑षि घृ॒ताहु॑तयो॒ यथ् सामा॑नि॒ सोमा॑हुतयो॒ यदथ॑र्वाङ्गि॒रसो॒ मद्ध्वा॑हुतयो॒ यद्ब्रा᳚ह्म॒णानी॑तिहा॒सान्-पु॑रा॒णानि॒ कल्पा॒न् गाथा॑ नाराशꣳ॒॒सीर्मे॑दाहु॒तयो॑ दे॒वाना॑-मभव॒न्ताभिः॒ क्षुधं॑ पा॒प्मान॒-मपा᳚घ्न॒न्-नप॑हतपाप्मानो दे॒वाः स्व॒र्गं ॅलो॒कमा॑य॒न् ब्रह्म॑णः॒ सायु॑ज्य॒-मृष॑योऽगच्छन्न् ।
कोर्वै (Index)
(णो खॊर्वै fऒर् थिस् आनुवाकम्)