वै॒श्वा॒न॒राय॒ प्रति॑वेदयामो॒ यदी॑नृ॒णꣳ स॑ङ्ग॒रो दे॒वता॑सु । स ए॒तान् पाशा᳚न् प्र॒मुच॒न् प्रवे॑द॒ स नो॑ मुञ्चातु दुरि॒तादव॒द्यात् ॥ वै॒श्वा॒न॒रः पव॑यान्नः प॒वित्रै॒र्यथ् स॑ङ्ग॒र-म॒भिधावा᳚म्या॒शाम् । अना॑जान॒न् मन॑सा॒ याच॑मानो॒ यदत्रैनो॒ अव॒ तथ् सु॑वामि ॥ अ॒मी ये सु॒भगे॑ दि॒वि वि॒चृतौ॒ नाम॒ तार॑के । प्रेहामृत॑स्य यच्छता-मे॒तद्-ब॑द्धक॒मोच॑नम् ॥ विजि॑हीर्ष्व लो॒कान् कृ॑धि ब॒न्धान् मु॑ञ्चासि॒ बद्ध॑कम् । योने॑रिव॒ प्रच्यु॑तो॒ गर्भः॒ सर्वा᳚न् प॒थो अ॑नुष्व ॥ स प्र॑जा॒नन् प्रति॑गृभ्णीत वि॒द्वान् प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ । अ॒स्माभि॑र्द॒त्तं ज॒रसः॑ प॒रस्ता॒दच्छि॑न्नं॒ तन्तु॑मनु॒ संच॑रेम ।
कोर्वै (Index)
(च॒रे॒म॒ - पु॒त्रꣳ षट्च॑)