यददी᳚व्यन्नृ॒णम॒हं ब॒भूवादि॑थ् सन्वा संज॒गर॒ जने᳚भ्यः । अ॒ग्निर्मा॒ तस्मा॒दिन्द्र॑श्च सम्ॅविदा॒नौ प्रमु॑ञ्चताम् ॥ यद्धस्ता᳚भ्यां च॒कर॒ किल्बि॑षाण्य॒क्षाणां᳚ ॅव॒ग्नुमु॑प॒जिघ्न॑मानः । उ॒ग्र॒म्प॒श्या च॑ राष्ट्र॒भृच्च॒ तान्य॑फ्स॒रसा॒ वनु॑दत्ता-मृ॒णानि॑ ॥ उग्र॑पंश्ये॒ राष्ट्र॑भृ॒त् किल्बि॑षाणि॒ यद॒क्षवृ॑त्त॒मनु॑दत्तमे॒तत् । नेन्न॑ ऋ॒णानृ॒णव॒ इथ्स॑मानो य॒मस्य॑ लो॒के अधि॑ रज्जु॒राय॑ ॥ "अव॑ ते॒ हेड॒ (हेळ॒) {30}" "उदु॑त्त॒म{31}" "मि॒मं मे॑ वरुण॒{32}" "तत्त्वा॑ यामि॒{33}" "त्वं नो॑ अग्ने॒{34}" "सत्वं नो॑ अग्ने{36} ॥ संकु॑सुको॒ विकु॑सुको निर्.ऋ॒थो यश्च॑ निस्व॒नः । तेऽ(1॒)स्मद्-यक्ष्म॒मना॑गसो दू॒राद्-दू॒रम॑चीचतम् ॥ निर्य॑क्ष्ममचीचते कृ॒त्यां निर्.ऋ॑तिं च ( ) । तेन॒ योऽ(1॒)स्मथ्समृ॑च्छातै॒ तम॑स्मै॒ प्रसु॑वामसि ॥ दु॒श्शꣳ॒॒सा॒नु॒शꣳ॒॒साभ्यां᳚ घ॒णेना॑नुघ॒णेन॑ च । तेना॒न्योऽ(1)॒स्मथ् समृ॑च्छातै॒ तम॑स्मै॒ प्रसु॑वामसि ॥ सम्ॅवर्च॑सा॒ पय॑सा॒ सन्त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सꣳ शि॒वेन॑ । त्वष्टा॑ नो॒ अत्र॒ विद॑धातु रा॒योऽनु॑मार्ष्टु त॒न्वो(1॒) यद्-विलि॑ष्टम् ।
कोर्वै (Index)
(कृ॒त्यां निर्.ऋ॑तिं च॒ पञ्च॑ च)