तस्य॒ वा ए॒तस्य॑ य॒ज्ञ्स्य॒ मेघो॑ हवि॒र्द्धानं॑ ॅवि॒द्युद॒ग्निर्व॒र्.॒षꣳ ह॒विः स्त॑नयि॒त्नुर्-व॑षट्का॒रो यद॑व॒स्फूर्ज॑ति॒ सोऽनु॑वषट्का॒रो वा॒युरा॒त्माऽमा॑वा॒स्या᳚ स्विष्ट॒कृद्य ए॒वं ॅवि॒द्वान्मे॒घे व॒र्.॒षति॑ वि॒द्योत॑माने स्त॒नय॑त्यव॒स्फूर्ज॑ति॒ पव॑माने वा॒याव॑मावा॒स्या॑याꣳ स्वाद्ध्या॒यमधी॑ते॒ तप॑ ए॒व तत्त॑प्यते॒ तपो॑ हि स्वाद्ध्या॒य इत्यु॑त्त॒मं नाकꣳ॑ रोहत्युत्त॒मः स॑मा॒नानां᳚ भवति॒ याव॑न्तꣳ ह॒ वा इ॒मां ॅवि॒त्तस्य॑ पू॒र्णां दद॑थ्स्व॒र्गं ॅलो॒कं ज॑यति॒ ताव॑न्तं ॅलो॒कं ज॑यति॒ भूयाꣳ॑सं चाक्ष॒य्यं चाप॑ पुनर्मृ॒त्युं ज॑यति॒ ब्रह्म॑णः॒ सायु॑ज्यं गच्छति ।
कोर्वै (Index)
(णॊ खॊर्वै fऒर् थिस् आनुवाकम्)