TA 2.5

1 पञ्चाशत्

T.A.2.5.1
आयु॑ष्टे वि॒श्वतो॑ दधद॒यम॒ग्निर्वरे᳚ण्यः । पुन॑स्ते प्रा॒ण आया॑ति॒ परा॒ यक्ष्मꣳ॑ सुवामि ते ॥ आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि र॑क्षतादि॒मम् ॥ इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि ति॒ग्ममोजो॑ वरुण॒ सꣳशि॑शाधि । मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा॒ जर॑दष्टि॒र् यथाऽस॑त् ॥ अग्न॒ आयूꣳ॑षि पवस॒ आसु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना᳚म् ॥ अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य᳚म् । दध॑द् र॒यिं मयि॒ पोष᳚म् ।
कोर्वै (Index)
(पोषं॑ - दद्ध्मसि - पु॒रोहि॑तश्च॒त्वारि॑ च)