TA 2.3

1 पञ्चाशत्

T.A.2.3.1
यद्-दे॑वा देव॒हेड॑नं॒ (देव॒हेळ॑नं॒) देवा॑सश्चकृ॒मा व॒यम् । आदि॑त्या॒स्तस्मा᳚न्मा मुञ्चत॒र्तस्य॒र्तेन॒ मामि॒त ॥ देवा॑ जीवनका॒म्या यद्-वा॒चाऽनृ॑तमूदि॒म । तस्मा᳚न्न इ॒ह मु॑ञ्चत॒ विश्वे॑ देवाः स॒जोष॑सः ॥ ऋ॒तेन॑ द्यावापृथिवी ऋ॒तेन॒ त्वꣳ स॑रस्वति । कृ॒तान्नः॑ पा॒ह्येन॑सो॒ यत् किञ्चानृ॑तमूदि॒म ॥ इ॒न्द्रा॒ग्नी मि॒त्रावरु॑णौ॒ सोमो॑ धा॒ता बृह॒स्पतिः॑ । ते नो॑ मुञ्च॒न्त्वेन॑सो॒ यद॒न्यकृ॑तमारि॒म ॥ स॒जा॒त॒शꣳ॒॒सादु॒त जा॑मिशꣳ॒॒ साज्ज्याय॑सः॒ शꣳसा॑दु॒त वा॒ कनी॑यसः । अना॑धृष्टं दे॒वकृ॑तं॒ ॅयदेन॒स्तस्मा॒त् त्वम॒स्माञ् जा॑तवेदो मुमुग्धि ( ) ॥ यद्वा॒चा यन् मन॑सा बा॒हुभ्या॑-मू॒रुभ्या॑मष्ठी॒वद्भ्या॑ शि॒श्नैर्यदनृ॑तं चकृ॒मा व॒यम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सा॒ गार्.ह॑पत्यः॒ प्रमु॑ञ्चतु चकृ॒म यानि॑ दुष्कृ॒ता ॥ येन॑ त्रि॒तो अ॑र्ण॒वान् नि॑र्ब॒भूव॒ येन॒ सूर्यं॒ तम॑सो निर्मु॒मोच॑ । येनेन्द्रो॒ विश्वा॒ अज॑हा॒दरा॑ती॒स्तेना॒हं ज्योति॑षा॒ ज्योति॑रानशा॒न आ᳚क्षि ॥ यत् कुसी॑द॒मप्र॑तीत्तं॒ मये॒ह येन॑ य॒मस्य॑ नि॒धिना॒ चरा॑मि । ए॒तत्तद॑ग्ने अनृ॒णो भ॑वामि॒ जीव॑न्ने॒व प्रति॒ तत्ते॑ दधामि ॥ "यन्मयि॑ मा॒ता{17}" "यदा॑ पि॒पेष॒{18}" "यद॒न्तरि॑क्षं॒{19}" " ॅयदा॒शसा{20} "ऽति॑क्रामामि{21}" "त्रि॒ते दे॒वा{22}" "दि॒वि जा॒ता{23}" "यदाप॑{24}" "इ॒मं मे॑ वरुण॒{25}" "तत्त्वा॑ यामि॒{26}" "त्वं नो॑ अग्ने॒{27}" "सत्वं नो॑ अग्ने॒{28}" "त्वम॑ग्ने अ॒यासि॑{29}"।
कोर्वै (Index)
(मु॒मु॒ग्धि॒ स॒प्त च॑)