नमः॒ प्राच्यै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒ नमो दक्षि॑णायै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒ नमः॒ प्रती᳚च्यै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒ नम॒ उदी᳚च्यै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒ नम॑ ऊ॒र्द्ध्वायै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒ नमोऽध॑रायै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒ नमो॑ऽवान्त॒रायै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒ नमो गङ्गायमुनयोर्मद्ध्ये ये॑ वस॒न्ति॒ ते मे प्रसन्नात्मानस्चिरं जीवितं ॅव॑र्द्धय॒न्ति॒ नमो गङ्गायमुनयोर्मुनि॑भ्यश्च॒ नमो॒ नमो गङ्गायमुनयोर्मुनि॑भ्यश्च॒ नमः ।
कोर्वै (Index)
(णॊ खॊर्वै fऒर् थिस् आनुवाकम्)