म॒द्ध्यन्दि॑ने प्र॒बल॒मधी॑यीता॒सौ खलु॒ वावैष आ॑दि॒त्यो यद्ब्रा᳚ह्म॒णस्तस्मा॒त्तर्.हि॒ तेक्ष्णि॑ष्ठं तपति॒ तदे॒षाऽभ्यु॑क्ता ॥ चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षꣳ॒॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॒श्चेति॒ स वा ए॒ष य॒ज्ञ्ः स॒द्यः प्रता॑यते स॒द्यः सन्ति॑ष्ठते॒ तस्य॒ प्राख्सा॒यम॑वभृ॒थो नमो॒ ब्रह्म॑ण॒ इति॑ परिधा॒नीयां॒ त्रिरन्वा॑हा॒प उ॑प॒स्पृश्य॑ गृ॒हाने॑ति॒ ततो॒ यत्किंच॒ ददा॑ति॒ सा दक्षि॑णा ।
कोर्वै (Index)
(णो खॊर्वै fऒर् थिस् आनुवाकम्)