TA 2.19

1 पञ्चाशत्

T.A.2.19.1
भूः प्रप॑द्ये॒ भुवः॒ प्रप॑द्ये॒ स्वः॑ प्रप॑द्ये॒ भूर्भुवः॒स्वः॑ प्रप॑द्ये॒ ब्रह्म॒ प्रप॑द्ये ब्रह्मको॒शं प्रप॑द्ये॒ऽमृतं॒ प्रप॑द्येऽमृतको॒शं प्रप॑द्ये चतुर्जा॒लं ब्र॑ह्मको॒शं ॅयं मृ॒त्युर्नाव॒पश्य॑ति॒ तं प्रप॑द्ये दे॒वान् प्रप॑द्ये देवपु॒रं प्रप॑द्ये॒ परी॑वृतो॒ वरी॑वृतो॒ ब्रह्म॑णा॒ वर्म॑णा॒ऽहं तेज॑सा॒ कश्य॑पस्य॒ यस्मै॒ नम॒स्तच्छिरो॒ धर्मो॑ मू॒र्द्धानं॑ ब्र॒ह्मोत्त॑रा॒ हनु॑र्य॒ज्ञोऽध॑रा॒ विष्णु॒र्॒. हृद॑यꣳ सम्ॅवथ्स॒रः प्र॒जन॑नम॒श्विनौ॑ पूर्व॒पादा॑व॒त्रिर्मद्ध्यं॑ मि॒त्रावरु॑णा वपर॒पादा॑व॒ग्निः पुच्छ॑स्य प्रथ॒मं काण्डं॒ तत॒ इन्द्र॒स्ततः॑ प्र॒जाप॑ति॒रभ॑यं चतु॒र्थꣳ स वा ए॒ष दि॒व्यः शा᳚क्व॒रः शिशु॑मार॒स्तꣳ ह॒ य ए॒वं ॅवेदाप॑ पुनर्मृ॒त्युं ज॑यति॒ जय॑ति स्व॒र्गं ॅलो॒कं नाद्ध्वनि॒ प्रमी॑यते॒ नाफ्सु प्रमी॑यते॒ नाग्नौ प्रमी॑यते॒ नान॒पत्यः॑ प्रमी॒यते॑ ल॒घ्वान्नो॑ भवति ध्रु॒वस्त्वम॑सि ध्रु॒वस्य क्षि॑तमसि॒ त्वं भू॒ताना॒मधि॑पतिरसि॒ त्वं भू॒तानाꣳ॒॒ श्रेष्ठो॑ऽसि॒ त्वां भू॒तान्युप॑प॒र्याव॑र्तन्ते॒ नम॑स्ते॒ नमः॒ सर्वं॑ ते॒ **नमो॒ नमः॑ ।
कोर्वै (Index)
(णॊ खॊर्वै fऒर् थिस् आनुवाकम्)