TA 2.8

1 पञ्चाशत्

T.A.2.8.1
कू॒श्मा॒ण्डैर् जु॑हुया॒द्-योऽपू॑त इव॒ मन्ये॑त॒ यथा᳚ स्ते॒नो यथा᳚ भ्रूण॒हैवमे॒ष भ॑वति॒ योऽयोनौ॒ रेतः॑ सि॒ञ्चति॒, यद॑र्वा॒चीन॒मेनो᳚ भ्रूणह॒त्याया॒स्तस्मा᳚न् मुच्यते॒ याव॒देनो॑ दी॒क्षामुपै॑ति दीक्षि॒त ए॒तैः स॑त॒ति जु॑होति सम्ॅवथ्स॒रं दी᳚क्षि॒तो भ॑वति सम्ॅवथ्स॒रादे॒वात्मानं॑ पुनीते॒ मासं॑ दीक्षि॒तो भ॑वति॒ यो मासः॒ स सम्ॅवथ्स॒रः स॑म्ॅवथ्स॒रादे॒वात्मानं॑ पुनीते॒ चतु॑र्विꣳशतिꣳ॒॒ रात्री᳚र्दीक्षि॒तो भ॑वति॒ चतु॑र्विꣳशति-रर्द्धमा॒साः स॑म्ॅवथ्स॒रः स॑म्ॅवथ्स॒रादे॒वात्मानं॑ पुनीते॒ द्वाद॑श॒ रात्री᳚र्दीक्षि॒तो भ॑वति॒ द्वाद॑श॒ मासाः᳚ सम्ॅवथ्स॒रः स॑म्ॅवथ्स॒रादे॒वात्मानं॑ पुनीते॒ षड्रात्री᳚र्दीक्षि॒तो भ॑वति॒ षड्वा ऋ॒तवः॑ सम्ॅवथ्स॒रः स॑म्ॅवथ्स॒रादे॒वात्मानं॑ पुनीते ति॒स्रो रात्री᳚र्-दीक्षि॒तो भ॑वति त्रि॒पदा॑ गाय॒त्री गा॑यत्रि॒या ए॒वात्मानं॑ पुनीते॒ न माꣳ॒॒सम॑श्नीया॒न्न स्त्रिय॒मुपे॑या॒न्नोपर्या॑सीत॒ जुगु॑फ्से॒तानृ॑ता॒त्पयो᳚ ब्राह्म॒णस्य॑ व्र॒तं ॅय॑वा॒गू रा॑ज॒न्य॑स्या॒मिक्षा॒ वैश्य॒स्याथो॑ सौ॒म्येऽप्य॑द्ध्व॒र ए॒तद्व्र॒तं ब्रू॑या॒द् यदि॒ मन्ये॑-तोप॒दस्या॒मीत्यो॑द॒नं धा॒नाः सक्तूं᳚ घृ॒तमित्यनु॑व्रतयेदा॒त्मनोऽनु॑पदासाय ।
कोर्वै (Index)
(णो खॊर्वै fऒर् थिस् आनुवाकम्)