वात॑रशना ह॒ वा ऋष॑यः श्रम॒णा ऊ॒र्द्ध्वम॑न्थि॒नो ब॑भूवु॒स्ता-नृष॑यो॒ऽर्थ-मा॑यꣳ॒॒स्ते नि॒लाय॑-मचरꣳ॒॒स्ते-ऽनु॑प्रविशुः कूश्मा॒ण्डानि॒ ताꣳ-स्तेष्वन्व॑विन्द-ञ्छ्र॒द्धया॑ च॒ तप॑सा च॒ , तानृष॑योऽब्रुवन् क॒था नि॒लायं॑ चर॒थेति॒ त ऋषी॑नब्रुव॒न्नमो॑ वोऽस्तु भगवन्तो॒ऽस्मिन् धा᳚म्नि॒ केन॑ वः सपर्या॒मेति॒ तानृष॑योऽब्रुवन् प॒वित्रं॑ नो ब्रूत॒ येना॑रे॒पसः॑ स्या॒मेति॒ त ए॒तानि॑ सू॒क्तान्य॑पश्य॒न्॒. , यद्-दे॑वा देव॒हेड॑नं॒ (देव॒हेळ॑नं॒) ॅयददी᳚व्यन्नृ॒णम॒हं ब॒भूवायु॑ष्टे वि॒श्वतो॑ दध॒दित्ये॒तैराज्यं॑ जुहुत वैश्वान॒राय॒ प्रति॑वेदयाम॒ इत्युप॑तिष्ठत॒ यद॑र्वा॒चीन॒मेनो᳚ भ्रूणह॒त्याया॒स्तस्मा᳚न् मोक्ष्यद्ध्व॒ इति॒ ,त ए॒तैर॑जुहवु॒स्तेऽरे॒पसो॑ऽभवन् कर्मा॒दिष्वे॒तैर्-जु॑हुयात् पू॒तो दे॑वलो॒कान् थ्सम॑श्नुते ।
कोर्वै (Index)
(णो खॊर्वै fऒर् थिस् आनुवाकम्)