TA 2.18

1 पञ्चाशत्

T.A.2.18.1
क॒ति॒धाऽव॑कीर्णी प्रवि॒शति॑ चतु॒र्द्धेत्या॑हुर्-ब्रह्मवा॒दिनो॑ म॒रुतः॑ प्रा॒णैरिन्द्रं॒ बले॑न॒ बृह॒स्पतिं॑ ब्रह्मवर्च॒सेना॒ग्निमे॒वेत॑रेण॒ सर्वे॑ण॒ तस्यै॒तां प्राय॑श्चित्तिं ॅवि॒दाञ्च॑कार सुदे॒वः का᳚श्य॒पो यो ब्र॑ह्मचा॒र्य॑व॒किरे॑दमावा॒स्या॑याꣳ॒॒ रात्र्या॑म॒ग्निं प्र॒णीयो॑पसमा॒धाय॒ द्विराज्य॑स्योप॒घातं॑ जुहोति॒ कामाव॑कीर्णो॒ऽस्म्यव॑कीर्णोऽस्मि॒ काम॒ कामा॑य॒ स्वाहा॒ कामाभि॑द्रुग्धो॒ऽस्म्यभि॑द्रुग्धोऽस्मि॒ काम॒ कामा॑य॒ स्वाहेत्य॒मृतं॒ ॅवा आज्य॑म॒मृत॑मे॒वात्मन् ध॑त्ते हु॒त्वा प्रय॑ताञ्ज॒लिः कवा॑तिर्यङ्ङ॒ग्निम॒भि म॑न्त्रयेत॒ सं मा॑ सिञ्चन्तु म॒रुतः॒ समिन्द्रः॒ संबृह॒स्पतिः॑ । सं मा॒ऽयम॒ग्निः सि॑ञ्च॒त्वायु॑षा च॒ बले॑न॒ चायु॑ष्मन्तं करोत॒ मेति॒ प्रति॑ हास्मै म॒रुतः॑ प्रा॒णान् द॑धति॒ प्रतीन्द्रो॒ बलं॒ प्रति॒ बृह॒स्पति॑र् ब्रह्मवर्च॒सं प्रत्य॒ग्निरि॒तर॒थ्सर्वꣳ॒॒ सर्व॑तनुर्भू॒त्वा सर्व॒मायु॑रेति॒ त्रिर॒भिम॑न्त्रयेत॒ त्रिष॑त्या॒ हि दे॒वा योऽपू॑त इव॒ मन्ये॑त॒ स इ॒त्थं जु॑हुयादि॒त्थ-म॒भिम॑न्त्रयेत॒ पुनी॑त ए॒वात्मान॒-मायु॑रे॒वात्मन् ध॑त्ते॒ वरो॒ दक्षि॑णा॒ वरे॑णै॒व वरꣳ॑ स्पृणोत्या॒त्मा हि वरः॑ ।
कोर्वै (Index)
(णो खॊर्वै fऒर् थिस् आनुवाकम्)