पञ्च॒ वा ए॒ते म॑हाय॒ज्ञाः स॑त॒ति प्रता॑यन्ते सत॒ति सन्ति॑ष्ठन्ते देवय॒ज्ञ्ः पि॑तृय॒ज्ञो भू॑तय॒ज्ञो म॑नुष्यय॒ज्ञो ब्र॑ह्मय॒ज्ञ् इति॒ यद॒ग्नौ जु॒होत्य॒पि स॒मिधं॒ तद्-दे॑वय॒ज्ञ्ः सन्ति॑ष्ठते॒ यत् पि॒तृभ्यः॑ स्व॒धा क॒रोत्यप्य॒पस्तत् पि॑तृय॒ज्ञ्ः सन्ति॑ष्ठते॒यद्-भू॒तेभ्यो॑ ब॒लिꣳ हर॑ति॒ तद्-भू॑तय॒ज्ञ्ः सन्ति॑ष्ठते॒ यद्ब्रा᳚ह्म॒णेभ्योऽन्नं॒ ददा॑ति॒ तन्म॑नुष्यय॒ज्ञ्ः सन्ति॑ष्ठते॒ यथ्स्वा᳚द्ध्या॒य-मधी॑यी॒-तैका॑मप्यृ॒चं ॅयजुः॒-साम॑ वा॒ तद्ब्र॑ह्मय॒ज्ञ्ः सन्ति॑ष्ठते॒ यदृ॒चोऽधी॑ते॒ पय॑सः॒ कूल्या॑ अस्य पि॒तॄन् थ्स्व॒धा अ॒भिव॑हन्ति॒ यद्-यजूꣳ॑षि घृ॒तस्य॑ कूल्या॒ यथ् सामा॑नि॒ सोम॑ एभ्यः पवते॒ यदथ॑र्वाङ्गि॒रसो॒ मधोः᳚ कूल्या॒ यद्ब्रा᳚ह्म॒णा-नी॑तिहा॒सान्-पु॑रा॒णानि॒ कल्पा॒न् गाथा॑ नाराशꣳ॒॒सीर्-मेद॑सः॒ कूल्या॑ अस्य पि॒तॄन्थ् स्व॒धा अ॒भिव॑हन्ति॒ यदृ॒चोऽधी॑ते॒ पय॑ आहुतिभिरे॒व तद्-दे॒वाꣳस्त॑र्पयति॒ यद्-यजूꣳ॑षि घृ॒ताहु॑तिभि॒र्यथ् सामा॑नि॒ सोमा॑हुतिभि॒र्-यदथ॑र्वाङ्गि॒रसो॒ मद्ध्वा॑हुतिभि॒र्-यद्ब्रा᳚ह्म॒णा-नी॑तिहा॒सान्-पु॑रा॒णानि॒ कल्पा॒न् गाथा॑ नाराशꣳ॒॒सीर्-मे॑दाहु॒तिभि॑रे॒व तद्-दे॒वाꣳस्त॑र्पयति॒ त ए॑नन् तृ॒प्ता आयु॑षा॒ तेज॑सा॒ वर्च॑सा श्रि॒या यश॑सा ब्रह्मवर्च॒सेना॒न्नाद्ये॑न च तर्पयन्ति ।
कोर्वै (Index)
(णो खॊर्वै fऒर् थिस् आनुवाकम्)