TA 2.11

1 पञ्चाशत्

T.A.2.11.1
ब्र॒ह्म॒य॒ज्ञेन॑ य॒क्ष्यमा॑णः॒ प्राच्यां᳚ दि॒शि ग्रामा॒दछ॑दिर्द॒र्॒.श उदी᳚च्यां प्रागुदी॒च्यां ॅवो॒दित॑ आदि॒त्ये द॑क्षिण॒त उ॑प॒वीयो॑प॒विश्य॒ हस्ता॑वव॒निज्य॒ त्रिराचा॑मे॒द्द्विः प॑रि॒मृज्य॑ स॒कृदु॑प॒स्पृश्य॒ शिर॒श्चक्षु॑षी॒ नासि॑के॒ श्रोत्रे॒ हृद॑यमा॒लभ्य॒ यत् त्रिरा॒चाम॑ति॒ तेन॒ ऋचः॑ प्रीणाति॒ यद्द्विः प॑रि॒मृज॑ति॒ तेन यजूꣳ॑षि॒ यथ् स॒कृदु॑प॒स्पृश॑ति॒ तेन॒ सामा॑नि॒ (यथ् स॒व्यं पा॒णि पा॒दौ प्रो॒क्षति॒) यच्छिर॒श्चक्षु॑षी॒ नासि॑के॒ श्रोत्रे॒ हृद॑यमा॒लभ॑ते॒ तेनाथ॑र्वाङ्गि॒रसो᳚ ब्राह्म॒णा-नी॑तिहा॒सान् पु॑रा॒णानि॒ कल्पा॒न् गाथा॑ नाराशꣳ॒॒सीः प्री॑णाति॒ दर्भा॑णां म॒हदु॑प॒स्तीर्यो॒पस्थं॑ कृ॒त्वा प्राङासी॑नः स्वाद्ध्या॒यमधी॑यीता॒पां ॅवा ए॒ष ओष॑धीनाꣳ॒॒ रसो॒ यद्-द॒र्भाः सर॑समॆ॒व ब्रह्म॑ कुरुते दक्षिणोत्त॒रौ पा॒णी (पा॒दौ) कृ॒त्वा सप॒वित्रा॒वोमिति॒ प्रति॑पद्यत ए॒तद्वै यजु॑स्त्रयीं ॅवि॒द्यां प्रत्ये॒षा वागे॒तत्प॑र॒मम॒क्षरं॒ तदे॒तदृ॒चाऽभ्यु॑क्तमृ॒चो अ॒क्षरे॑ पर॒मे व्यो॑म॒न्॒. यस्मि॑न् दे॒वा अधि॒ विश्वे॑ निषे॒दुर्यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा॑सत॒ इति॒ त्रीने॒व प्रायु॑ङ्क्त॒ भूर्भुवः॒स्व॑रित्या॑है॒तद्वै वा॒चः स॒त्यं ॅयदे॒व वा॒चः स॒त्यं तत् प्रायु॒ङ्क्ताथ॑ सावि॒त्रीं गा॑य॒त्रीं त्रिरन्वा॑ह प॒च्छो᳚ऽर्द्धर्च॑शोऽनवा॒नꣳ स॑वि॒ता श्रियः॑ प्रसवि॒ता श्रिय॑मे॒वाप्नो॒त् यथो᳚ प्र॒ज्ञात॑यै॒व प्र॑ति॒पदा॒ छन्दाꣳ॑सि॒ प्रति॑पद्यते ।
कोर्वै (Index)
(णो खॊर्वै fऒर् थिस् आनुवाकम्)