TA 2.17

1 पञ्चाशत्

T.A.2.17.1
दु॒हे ह॒ वा ए॒ष छन्दाꣳ॑सि॒ यो या॒जय॑ति॒ स येन॑ यज्ञ्क्र॒तुना॑ या॒जये॒थ् सोऽर॑ण्यं प॒रेत्य॑ शुचौ दे॒शे स्वा᳚द्ध्या॒य-मे॒वैन॒-मधी॑यन्नासी॒त तस्या॒नश॑नं दी॒क्षा स्था॒नमु॑प॒सद॒ आस॑नꣳ सु॒त्या वाग्जु॒हूर्मन॑ उप॒भृद्धृ॒तिर्द्ध्रु॒वा प्रा॒णो ह॒विः सामा᳚द्ध्व॒र्युः स वा ए॒ष य॒ज्ञ्ः प्रा॒णद॑क्षि॒णोऽन॑न्तदक्षिणः॒ समृ॑द्धतरः ।
कोर्वै (Index)
(णॊ खॊर्वै fऒर् थिस् आनुवाकम्)