तस्य॒ वा ए॒तस्य॑ य॒ज्ञ्स्य॒ द्वाव॑नद्ध्या॒यौ यदा॒ऽऽत्माऽशुचि॒र्-यद्-दे॒शः समृ॑द्धिर्दैव॒तानि॒ य ए॒वं ॅवि॒द्वान् म॑हारा॒त्र उ॒षस्युदि॑ते॒ व्रजꣳ॒॒स्तिष्ठ॒न्-नासी॑नः॒ शया॑नो॒ऽरण्ये᳚ ग्रामे॒ वा याव॑त्त॒रसꣳ॑ स्वाद्ध्या॒यमधी॑ते॒ सर्वा᳚न् ॅलो॒काञ्ज॑यति॒ सर्वा᳚न् ॅलो॒कान॑नृ॒णोऽनु॒ संच॑रति॒ तदे॒षाऽभ्यु॑क्ता ॥ अ॒नृ॒णा अ॒स्मिन्न॑नृ॒णाः पर॑स्मिꣳस्तृ॒तीये॑ लो॒के अ॑नृ॒णाः स्या॑म । ये दे॑व॒याना॑ उ॒त पि॑तृ॒याणाः॒ सर्वा᳚न् प॒थो अ॑नृ॒णा आक्षी॑ये॒मेत्य॒ग्निं ॅवै जा॒तं पा॒प्मा ज॑ग्राह॒ तंदे॒वा आहु॑तीभिः पा॒प्मान॒मपा᳚घ्न॒न्-नाहु॑तीनां ॅय॒ज्ञेन॑ य॒ज्ञ्स्य॒ दक्षि॑णाभि॒र्-दक्षि॑णानां ब्राह्म॒णेन॑ ब्राह्म॒णस्य॒ छन्दो॑भिः॒ छन्द॑साꣳ स्वाद्ध्या॒येनाप॑हतपाप्मा स्वाद्ध्या॒यो॑ दे॒वप॑वित्रं॒ ॅवा ए॒तत्तं ॅयोऽनू᳚थ् सृ॒जत्यभा॑गो वा॒चि भ॑व॒त्यभा॑गो ना॒के तदे॒षाऽभ्यु॑क्ता ॥ यस्ति॒त्याज॑ सखि॒विदꣳ॒॒ सखा॑यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति । यदीꣳ॑ शृ॒णोत्य॒लकꣳ॑ शृणोति॒ न हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॒मिति॒ तस्मा᳚थ् स्वाद्ध्या॒योऽद्ध्ये॑त॒व्यो॑ यं ॅयं॑ क्र॒तुमधी॑ते॒ तेन॑ तेनास्ये॒ष्टं भ॑वत्य॒ग्नेर्-वा॒यो-रा॑दि॒त्यस्य॒ सायु॑ज्यं गच्छति॒ तदे॒षाऽभ्यु॑क्ता ॥ ये अ॒र्वाङु॒त वा॑ पुरा॒णे वे॒दं ॅवि॒द्वाꣳस॑म॒भितो॑ वदन्त्यादि॒त्यमे॒व ते परि॑वदन्ति॒ सर्वे॑ अ॒ग्निं द्वि॒तीयं॑ तृ॒तीयं॑ च हꣳ॒॒समिति॒ याव॑ती॒र्वै दे॒वता॒स्ताः सर्वा॑ वेद॒विदि॑ ब्राह्म॒णे व॑सन्ति॒ तस्मा᳚द् ब्राह्म॒णेभ्यो॑ वेद॒विद्भ्यो॑ दि॒वेदि॑वे॒ नम॑स्कुर्या॒न्नाश्ली॒लं की᳚र्तयेदे॒ता ए॒व दे॒वताः᳚ प्रीणाति ।
कोर्वै (Index)
(णो खॊर्वै fऒर् थिस् आनुवाकम्)