TA 2.12

1 पञ्चाशत्

T.A.2.12.1
ग्रामे॒ मन॑सा स्वाद्ध्या॒यमधी॑यीत॒ दिवा॒ नक्तं॑ ॅवे॒ति ह॑ स्मा॒ह शौ॒च आ᳚ह्ने॒य उ॒तार॑ण्ये॒ऽबल॑ उ॒त वा॒चोत तिष्ठ॑न्नु॒त व्रज॑न्नु॒तासी॑न उ॒त शया॑नो॒ऽधीयी॑तै॒व स्वा᳚द्ध्या॒यं तप॑स्वी॒ पुण्यो॑ भवति॒ य ए॒वं ॅवि॒द्वान्थ् स्वा᳚द्ध्या॒यमधी॑ते॒ नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः । नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि ।
कोर्वै (Index)
(णो खॊर्वै fऒर् थिस् आनुवाकम्)