TA 2.16

1 पञ्चाशत्

T.A.2.16.1
रिच्य॑त इव॒ वा ए॒ष प्रेव रि॑च्यते॒ यो या॒जय॑ति॒ प्रति॑ वा गृ॒ह्णाति॑ या॒जयि॑त्वा प्रतिगृ॒ह्य वाऽन॑श्न॒न्त्रिः स्वा᳚द्ध्या॒यं ॅवे॒दमधी॑यीत त्रिरा॒त्रं ॅवा॑ सावि॒त्रीं गा॑य॒त्री-म॒न्वाति॑रेचयति॒ वरो॒ दक्षि॑णा॒ वरे॑णै॒व वरꣳ॑ स्पृणोत्या॒त्मा हि वरः॑ ।
कोर्वै (Index)
(णो खॊर्वै fऒर् थिस् आनुवाकम्)