TA 2.2

1 पञ्चाशत्

T.A.2.2.1
रक्षाꣳ॑सि॒ हवा॑ पुरोनुवा॒के तपोऽग्र॑मतिष्ठन्त॒ तान् प्र॒जाप॑तिर् व॒रेणो॒पाम॑न्त्रयत॒ तानि॒ वर॑मवृणीतादि॒त्यो नो॒ योद्धा॒ इति॒ तान् प्र॒जाप॑ति-रब्रवी॒द्-योध॑य॒द्ध्वमिति॒ तस्मा॒दुत्ति॑ष्ठन्तꣳ॒॒ हवा॒ तानि॒ रक्षाꣳ॑स्यादि॒त्यं ॅयोध॑यन्ति॒ याव॑दस्त॒मन्व॑गा॒त् तानि॑ ह॒ वा ए॒तानि॒ रक्षाꣳ॑सि गायत्रि॒या ऽभि॑मन्त्रिते॒नांभ॑सा शाम्यन्ति॒ तदु॑ ह॒ वा ए॒ते ब्र॑ह्मवा॒दिनः॑ पू॒र्वाभि॑मु॒खाः स॒न्ध्यायां᳚ गायत्रि॒याऽभि॑मन्त्रिता॒ आप॑ ऊ॒र्द्ध्वं ॅविक्षि॑पन्ति॒ ता ए॒ता आपो॑ व॒ज्रीभू॒त्वा तानि॒ रक्षाꣳ॑सि म॒न्देहाऽरु॑णे द्वी॒पे प्रक्षि॑पन्ति॒ यत् प्र॑दक्षि॒णं प्रक्र॑मन्ति॒ तेन॑ पा॒प्मान॒मव॑ धून्वन्त्यु॒द्यन्त॑मस्तं॒ ॅयन्त॑मादि॒त्य-म॑भिद्ध्या॒यन् कु॒र्वन् ब्रा᳚ह्म॒णो वि॒द्वान्थ् स॒कलं॑ भ॒द्रम॑श्नुते॒ ऽसावा॑दि॒त्यो ब्र॒ह्मेति॒ ब्रह्मै॒व सन् ब्रह्मा॒प्येति॒ य ए॒वं ॅवेद॑ ।
कोर्वै (Index)
(णो खॊर्वै fऒर् थिस् आनुवाकम्)