प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.4.1.3 TS 7.4.1.3
य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञ्स्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं ॅलो॒कं ॅय॑न्ति चतुर्विꣳशतिरा॒त्रो भ॑वति॒ चतु॑र्विꣳशतिरर्द्धमा॒साः सं॑ॅवथ्स॒रः सं॑ॅवथ्स॒रः सु॑व॒र्गो लो॒कः सं॑ॅवथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑र्विꣳशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धते ऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥
पदपाठः (Word-by-word)
य॒न्ति॒ । अथो॒ इति॑ । अ॒नयोः᳚ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । ए॒ते इति॑ । वै । य॒ज्ञ्स्य॑ । अ॒ञ्ज॒साय॑नी॒ इत्य॑ञ्जसा - अय॑नी । स्रु॒ती इति॑ । ताभ्या᳚म् । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । च॒तु॒र्विꣳ॒॒श॒ति॒रा॒त्र इति॑ चतुर्विꣳशति - रा॒त्रः । भ॒व॒ति॒ । चतु॑र्विꣳशति॒रिति॒ चतुः॑ - विꣳ॒॒श॒तिः॒ । अ॒द्‌र्ध॒मा॒सा इत्य॑द्‌र्ध - मा॒साः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सु॒व॒र्ग इति॑ सुवः - गः । लो॒कः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । ए॒व । सु॒व॒र्ग इति॑ सुवः - गे । लो॒के । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अथो॒ इति॑ । चतु॑र्विꣳशत्यक्ष॒रेति॒ चतु॑र्विꣳशति - अ॒क्ष॒रा॒ । गा॒य॒त्री । गा॒य॒त्री । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । गा॒य॒त्रि॒या । ए॒व । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अवेति॑ । रु॒न्ध॒ते॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 45