प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.4.12.1 TS 7.4.12.1
मे॒षस्त्वा॑ पच॒तैर॑वतु॒ लोहि॑तग्रीवः॒ छागैः᳚ शल्म॒लिर्वृद्ध्या॑ प॒र्णो ब्रह्म॑णा प्ल॒क्षो मेधे॑न न्य॒ग्रोध॑श्चम॒सैरु॑दु॒बंर॑ ऊ॒र्जा गा॑य॒त्री छन्दो॑भिस्त्रि॒वृथ् स्तोमै॒रव॑न्तीः॒ स्थाव॑न्तीस्त्वाऽवन्तु प्रि॒यं त्वा᳚ प्रि॒याणां॒ ॅवर्.षि॑ष्ठ॒माप्या॑नां निधी॒नां त्वा॑ निधि॒पतिꣳ॑ हवामहे वसो मम ॥
पदपाठः (Word-by-word)
मे॒षः । त्वा॒ । प॒च॒तैः । अ॒व॒तु॒ । लोहि॑तग्रीव॒ इति॒ लोहि॑त - ग्री॒वः॒ । छागैः᳚ । श॒ल्म॒लिः । वृद्ध्या᳚ । प॒र्णः । ब्रह्म॑णा । प्ल॒क्षः । मेधे॑न । न्य॒ग्रोधः॑ । च॒म॒सैः । उ॒दु॒म्बरः॑ । ऊ॒र्जा । गा॒य॒त्री । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । त्रि॒वृदिति॑ त्रि - वृत् । स्तोमैः᳚ । अव॑न्तीः । स्थ॒ । अव॑न्तीः । त्वा॒ । अ॒व॒न्तु॒ । प्रि॒यम् । त्वा॒ । प्रि॒याणा᳚म् । वर्.षि॑ष्ठम् । आप्या॑नाम् । नि॒धी॒नामिति॑ नि - धी॒नाम् । त्वा॒ । नि॒धि॒पति॒मिति॑ निधि - पति᳚म् । ह॒वा॒म॒हे॒ । व॒सो॒ इति॑ । म॒म॒ ॥
पदसंख्या: 36
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अतः परमश्वमेधमन्त्राः । तत्र अपाव्यानि जुहोति - मेषस्त्वेति ॥ रात्रिहोमेष्वग्निपर्यग्निकरणे चाश्वस्य । हे अश्व पचतैः पचनीयैः अन्नैस्सह मेषः पचनीयानां मुख्यस्त्वामवतु अनुप्रविशतु । अवतिरनेकार्थः । पचतेरौणादिकोतच्, । लोहितग्रीवोऽजानां मुख्यः छागैस्सह त्वामवत्वित्येव । अत्र सहाभिगमनेऽवतिर्वर्तते । यथोक्तम् - 'पर्यग्निकृतानारण्यानुत्सृजन्ति' 'वाडवे पुरुषवाजः पुरो नीयते अश्वस्य' इति । शल्मलिः पादपो वर्षिष्ठः वृद्ध्या सह त्वामवतु अनुप्रविश्य वर्धयतु । पर्णः पलाशः प्रशस्तानां प्रथमः स ब्रह्मणा मन्त्रैर्ब्राह्मणैर्वा त्वामनु रक्षतु । जातावेकवचनम् । प्लक्षो यज्ञियानां मुख्यः स मेधेन यज्ञेन यज्ञबलेन वा त्वामवतु प्राप्नोतु । न्यग्रोधश्चमसैः पात्रैः सह त्वामवतु धारयतु । यथोक्तम् - 'नैयग्रोधश्चमसः' इति । उदुम्बरः ऊर्जा रसानां मुख्यः ऊर्जा सह त्वामवतु रसेन वर्धयतु । गायत्री छन्दसामाद्या छन्दोभरुष्णिगादिभिः सह त्वामवतु रक्षतु । त्रिवृत्स्तोमानां प्रथमः त्वां स्तोमैः पञ्चदशादिभिः सह अवतु । अवन्तीस्स्थेति । पङ्क्तिप्रकारश्चतुष्पदः एकादशाक्षरः प्रथमः द्वितीयतृतीयौ षडक्षरौ षोडशाक्षरश्चतुर्थः । अवन्तीः अवन्त्यः । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । या अन्या अपि प्रजा उवन्त्यो भवन्ति आप ओषधयो वा । यद्वा - पूर्वोक्तानां मेषादीना अवतां सम्बन्धिन्यो याः पत्न्या भवन्ति ताः सर्वाः त्वमेवासि । सर्वथा पुरुषव्यत्ययात् वचनव्यत्ययाद्वा न मुच्यामहे । ता अवन्त्यः त्वामवन्तु । तं त्वा प्रियाणां प्रियं आप्यानां वृद्धानामपि वर्षिष्ठं वृद्धतमम् । पूर्ववद्वर्षादेशः । आङ्पूर्वाद्व्यायतेः छान्दसो ङः, अप्छब्दाद्वा ण्यः' । वृषादिर्द्रष्टव्यः । अनवधारणादनवग्रहः । निधीनामपि निधिपतिं महानिधिं महान्तं निधिम् । यद्वा - सर्वेषां निधीनां संबन्धिनं निधिपतिं स्वामिनम् । अथवा - निधयो निधातारस्तेषामपि निधिपतिं अतिशयेन निधातारम् । सर्वथा 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । ईदृशं त्वां हवामहे जुहुमः । व्यत्ययेन शप् आत्मनेपदं च । यद्वा - होतुमाह्वयामः । 'बहुलं छन्दसि' इति संप्रसारणम् । हे वसो धनस्थानीय मम । यद्वा - मम वासयितः पुण्येषु लोकेषु । 'परमपि छन्दसि' इति परस्य षष्ठ्यन्तस्य पूर्वामन्त्रितानुप्रवेशात् षष्ठ्यन्तामन्त्रितसमुदायो निहन्यते ॥
इति सप्तमे चतुर्थे द्वादशोनुवाकः ॥