गो॒ष्ठे रि॑रीहि ॥ प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै᳚र्दे॒वैः पि॒तृभिः॑ संॅविदा॒नः । शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाऽक॒स्तासां᳚ ॅव॒यं प्र॒जया॒ सꣳ स॑देम ॥इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहा॑ म॒हीमू॒ षु1 सु॒त्रामा॑णं2 ॥
पदपाठः (Word-by-word)
गो॒ष्ठ इति॑ गो - स्थे । रि॒री॒हि॒ ॥ प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । मह्य᳚म् । ए॒ताः । ररा॑णः । विश्वैः᳚ । दे॒वैः । पि॒तृभि॒रिति॑ पि॒तृ - भिः॒ । सं॒ॅवि॒दा॒न इति॑ सं - वि॒दा॒नः ॥ शि॒वाः । स॒तीः । उपेति॑ । नः॒ । गो॒ष्ठमिति॑ गो - स्थम् । एति॑ । अ॒कः॒ । तासा᳚म् । व॒यम् । प्र॒जयेति॑ प्र-जया᳚ । समिति॑ । स॒दे॒म॒ ॥ इ॒ह । धृतिः॑ । स्वाहा᳚ । इ॒ह । विधृ॑ति॒रिति॒ वि - धृ॒तिः॒ । स्वाहा᳚ । इ॒ह । रन्तिः॑ । स्वाहा᳚ । इ॒ह । रम॑तिः । स्वाहा᳚ । म॒हीम् । उ॒ । स्विति॑ । सु॒त्रामा॑ण॒मिति॑ सु - त्रामा॑णम् ॥