प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.4.18.2 TS 7.4.18.2
च॒न्द्रमा॑ जायते॒ पुनः॑ । अ॒ग्निर्. हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत् ॥ पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभिं᳚ । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं ॅव्यो॑म ॥वेदि॑माहुः॒ पर॒मन्तं॑ पृथि॒व्या य॒ज्ञ्मा॑हु॒ र्भुव॑नस्य॒ नाभिं᳚ । सोम॑माहु॒र्वृष्णो॒ अश्व॑स्य॒ रेतो॒ ब्रह्मै॒व वा॒चः प॑र॒मं ॅव्यो॑म ॥
पदपाठः (Word-by-word)
च॒न्द्रमाः᳚ । जा॒य॒ते॒ । पुनः॑ ॥ अ॒ग्निः । हि॒मस्य॑ । भे॒ष॒जम् । भूमिः॑ । आ॒वप॑न॒मित्या᳚ - वप॑नम् । म॒हत् ॥ पृ॒च्छामि॑ । त्वा॒ । पर᳚म् । अन्त᳚म् । पृ॒थि॒व्याः । पृ॒च्छामि॑ । त्वा॒ । भुव॑नस्य । नाभि᳚म् ॥ पृ॒च्छामि॑ । त्वा॒ । वृष्णः॑ । अश्व॑स्य । रेतः॑ । पृ॒च्छामि॑ । वा॒चः । प॒र॒मम् । व्यो॑मेति॒ वि - ओ॒म॒ ॥ वेदि᳚म् । आ॒हुः॒ । पर᳚म् । अन्त᳚म् । पृ॒थि॒व्याः । य॒ज्ञ्म् । आ॒हुः॒ । भुव॑नस्य । नाभि᳚म् ॥ सोम᳚म् । आ॒हुः॒ । वृष्णः॑ । अश्व॑स्य । रेतः॑ । ब्रह्म॑ । ए॒व । वा॒चः । प॒र॒मम् । व्यो॑मेति॒ वि - ओ॒म॒ ॥
पदसंख्या: 46