प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.4.6.3 TS 7.4.6.3
वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति षट्-त्रिꣳशद् रा॒त्रो भ॑वति॒ षट्त्रिꣳ॑शदक्षरा बृह॒ती बार्.ह॑ताः प॒शवो॑ बृह॒त्यैव प॒शूनव॑ रुन्धते बृह॒ती छन्द॑साꣳ॒॒ स्वारा᳚ज्यमाश्नुता-श्नु॒वते॒ स्वारा᳚ज्यं॒ ॅय ए॒वं ॅवि॒द्वाꣳसः॑ षट्त्रिꣳशद् रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कं ॅय॑न्त्यतिरा॒त्राव॒भितो॑ भवतः सुव॒र्गस्य॑ लो॒कस्य॒ परि॑गृहीत्यै ॥
पदपाठः (Word-by-word)
वी॒र्ये᳚ । प॒शुषु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । ष॒ट्त्रिꣳ॒॒श॒द्रा॒त्र इति॑ षट्त्रिꣳशत्-रा॒त्रः । भ॒व॒ति॒ । षट्त्रिꣳ॑शदक्ष॒रेति॒ षट्त्रिꣳ॑शत्-अ॒क्ष॒रा॒ । बृ॒ह॒ती । बार्.ह॑ताः । प॒शवः॑ । बृ॒ह॒त्या । ए॒व । प॒शून् । अवेति॑ । रु॒न्ध॒ते॒ । बृ॒ह॒ती । छन्द॑साम् । स्वारा᳚ज्य॒मिति॒ स्व - रा॒ज्य॒म् । आ॒श्नु॒त॒ । अ॒श्नु॒वते᳚ । स्वारा᳚ज्य॒मिति॒ स्व - रा॒ज्य॒म् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ष॒ट्त्रिꣳ॒॒श॒द्रा॒त्रमिति॑ षट्त्रिꣳशत् - रा॒त्रम् । आस॑ते । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । लो॒कम् । य॒न्ति॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 36