प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.4.13.1 TS 7.4.13.1
कूप्या᳚भ्यः॒ स्वाहा॒ कूल्या᳚भ्यः॒ स्वाहा॑ विक॒र्या᳚भ्यः॒ स्वाहा॑ ऽव॒ट्या᳚भ्यः॒ स्वाहा॒ खन्या᳚भ्यः॒ स्वाहा॒ ह्रद्या᳚भ्यः॒ स्वाहा॒ सूद्या᳚भ्यः॒ स्वाहा॑ सर॒स्या᳚भ्यः॒ स्वाहा॑ वैश॒न्तीभ्यः॒ स्वाहा॑ पल्व॒ल्या᳚भ्यः॒ स्वाहा॒ वर्ष्या᳚भ्यः॒ स्वाहा॑ ऽव॒र्ष्याभ्यः॒ स्वाहा᳚ ह्रा॒दुनी᳚भ्यः॒ स्वाहा॒ पृष्वा᳚भ्यः॒ स्वाहा॒ स्यन्द॑मानाभ्यः॒ स्वाहा᳚ स्थाव॒राभ्यः॒ स्वाहा॑ नादे॒यीभ्यः॒ स्वाहा॑ सैन्ध॒वीभ्यः॒ स्वाहा॑ समु॒द्रिया᳚भ्यः॒ स्वाहा॒ सर्वा᳚भ्यः॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
कूप्या᳚भ्यः । स्वाहा᳚ । कूल्या᳚भ्यः । स्वाहा᳚ । वि॒क॒र्या᳚भ्य॒ इति॑ वि - क॒र्या᳚भ्यः । स्वाहा᳚ । अ॒व॒ट्या᳚भ्यः । स्वाहा᳚ । खन्या᳚भ्यः । स्वाहा᳚ । ह्रद्या᳚भ्यः । स्वाहा᳚ । सूद्या᳚भ्यः । स्वाहा᳚ । स॒र॒स्या᳚भ्यः । स्वाहा᳚ । वै॒श॒न्तीभ्यः॑ । स्वाहा᳚ । प॒ल्व॒ल्या᳚भ्यः । स्वाहा᳚ । वर्ष्या᳚भ्यः । स्वाहा᳚ । अ॒व॒र्ष्याभ्यः॑ । स्वाहा᳚ । ह्रा॒दुनी᳚भ्य॒ इति॑ ह्रा॒दुनि॑ - भ्यः॒ । स्वाहा᳚ । पृष्वा᳚भ्यः । स्वाहा᳚ । स्यन्द॑मानाभ्यः । स्वाहा᳚ । स्था॒व॒राभ्यः॑ । स्वाहा᳚ । ना॒दे॒यीभ्यः॑ । स्वाहा᳚ । सै॒न्ध॒वीभ्यः॑ । स्वाहा᳚ । स॒मु॒द्रिया᳚भ्यः । स्वाहा᳚ । सर्वा᳚भ्यः । स्वाहा᳚ ॥
पदसंख्या: 40
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पुनरपि तत्रैव रात्रिहोमेष्वपां होमाः - कूप्याभ्य इत्यादि ॥ कूपाः प्रसिद्धाः । सर्वत्र 'भवे छन्दसि' इति यत् । द्व्यचां 'यतोऽनावः' इत्याद्युदात्तत्वम् । अन्यत्र 'तित्स्वरितम्' इति स्वरितत्वम् । कुल्यासु भवाः कूल्याः छान्दसं दीर्घत्वम् । यद्वा - कूलसमीपभवाः क्षुद्रकूपाः कृऽल्याः । विकर्या भूविवराः । किरतेः ऋदोरप् । विकृतावादेशः करोतेः छान्दसो दीर्घः । अवटा गर्ताः । खन्याः खननेन निर्वृताः तटाकादयः । ह्रदाः अगाधा जलाशयाः । सूदाः कदाचिदप्यशोषितपङ्काः । सुष्ठून्नयनीयाः सूद्या इति केचित् काष्ठादियन्त्रप्रभवा उच्यन्ते । सरांसि स्वयमुत्पन्ना जलाशयाः । आर्तास्वार्तासु स्फुटं पुनःपुनर्विशन्ति उत्पद्यन्ते एष्वाप इति वेशन्ताः । विशतेरौणादिकोऽतच् । वेशन्तहिमवद्भ्यामणि आदत्तभाव [अन्तोदात्तभाव] इति केचित् । पल्वलानि । वन्या जलाशयाः । वर्ष्याः वर्षे भवाः । वर्षे न भवन्तीत्यवर्ष्याः पीडनप्रभवाः । 'ययतोश्चातदर्थे' इत्युत्तरपदान्तोदात्तत्वम् । ह्रादुन्यः ह्रादुशब्दवत्यः । ह्रादेरौणादिको निप्रत्ययः, छान्दसं दीर्घत्वम् । पृष्वाः अवश्यायजलानि संचितानीत्यन्ये । स्यन्दमानाः वहन्त्यो यत्र क्वापि । स्थावराभ्यः तिष्ठन्तीभ्यः यत्र क्वापि । 'स्थेशभास' इति वरच् । नादेय्यः नद्यां भवाः । 'नद्यादिभ्यो ढक्' सैन्धव्यः महानदीप्रभवाः पुन्नदास्सिन्धव इति केचिन् । औत्सर्गिकेण उदात्तनिवृत्तिस्वरेण ङीष उदात्तत्वम् । समुद्रियाभ्यः । 'समुद्राभ्राद्धः' सर्वाभ्य इत्यनुक्तपरिग्रहार्यम् ॥
इति सप्तमे चतुर्थे त्रयोदशोनुनवाकः ॥