प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.4.16.1 TS 7.4.16.1
नमो॒ राज्ञे॒ नमो॒ वरु॑णाय॒ नमोऽश्वा॑य॒ नमः॑ प्र॒जाप॑तये॒ नमोऽधि॑पत॒ये ऽधि॑पतिर॒स्यधि॑पतिं मा कु॒र्वधि॑पतिर॒हं प्र॒जानां᳚ भूयासं॒ मां धे॑हि॒ मयि॑ धेह्यु॒पाकृ॑ताय॒ स्वाहा ऽऽल॑ब्धाय॒ स्वाहा॑ हु॒ताय॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
नमः॑ । राज्ञे᳚ । नमः॑ । वरु॑णाय । नमः॑ । अश्वा॑य । नमः॑ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । नमः॑ । अधि॑पतय॒ इत्यधि॑ - प॒त॒ये॒ । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । अ॒सि॒ । अधि॑पति॒मित्यधि॑ - प॒ति॒म् । मा॒ । कु॒रु॒ । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । अ॒हम् । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । भू॒या॒स॒म् । माम् । धे॒हि॒ । मयि॑ । धे॒हि॒ । उ॒पाकृ॑ता॒येत्यु॑प - आकृ॑ताय । स्वाहा᳚ । आल॑ब्धा॒येत्या - ल॒ब्धा॒य॒ । स्वाहा᳚ । हु॒ताय॑ । स्वाहा᳚ ॥
पदसंख्या: 29
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 रात्रिहोमेषु यव्यानि जुहोति - नमो राज्ञ इत्यादि ॥ सर्वं निगदसिद्धम् । राजा सोमः । मां धेहि धारय । यत्रावस्थापितेन मया भूयोपि किंचित्कर्तव्यमस्ति तत्र मां स्थापय यद्दातव्यम् ॥
2 उपाकृताय इत्यादौ लिङ्गादेव सिद्धो विनियोगः । आद्ययोः 'गतिरनन्तरः' इति प्रकृतिस्वरत्वम् ॥
इति सप्तमे चतुर्थे षोडशोनुवाकः ॥