ग॑च्छन्ति पृ॒ष्ठानि॒ हि दैवी॑ सꣳ॒॒सज्जा॒मि वा ए॒तत् कु॑र्वन्ति॒ यत् त्रय॑स्त्रयस्त्रिꣳ॒॒शा अ॒न्वञ्चो॒ मद्ध्येऽनि॑रुक्तो भवति॒ तेनाजा᳚म्यू॒र्द्ध्वानि॑ पृ॒ष्ठानि॑ भवन्त्यू॒र्द्ध्वाः छ॑न्दो॒मा उ॒भाभ्याꣳ॑ रू॒पाभ्याꣳ॑ सुव॒र्गं ॅलो॒कं ॅय॒न्त्यस॑त्रं॒ ॅवा ए॒तद्-यद॑छन्दो॒मं ॅयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्रं दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शवः॑- [ ]
पदपाठः (Word-by-word)
ग॒च्छ॒न्ति॒ । पृ॒ष्ठानि॑ । हि । दैवी᳚ । सꣳ॒॒सदिति॑ सं - सत् । जा॒मि । वै । ए॒तत् । कु॒र्व॒न्ति॒ । यत् । त्रयः॑ । त्र॒य॒स्त्रिꣳ॒॒शा इति॑ त्रयः-स्त्रिꣳ॒॒शाः । अ॒न्वञ्चः॑ । मद्ध्ये᳚ । अनि॑रुक्त॒ इत्यनिः॑ - उ॒क्तः॒ । भ॒व॒ति॒ । तेन॑ । अजा॑मि । ऊ॒द्र्ध्वानि॑ । पृ॒ष्ठानि॑ । भ॒व॒न्ति॒ । ऊ॒द्र्ध्वाः । छ॒न्दो॒मा इति॑ छन्दः - माः । उ॒भाभ्या᳚म् । रू॒पाभ्या᳚म् । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । अस॑त्रम् । वै । ए॒तत् । यत् । अ॒छ॒न्दो॒ममित्य॑छन्दः-मम् । यत् । छ॒न्दो॒मा इति॑ छन्दः- माः । भव॑न्ति । तेन॑ । स॒त्रम् । दे॒वताः᳚ । ए॒व । पृ॒ष्ठैः । अवेति॑ । रु॒न्ध॒ते॒ । प॒शून् । छ॒न्दो॒मैरिति॑ छन्दः - मैः । ओजः॑ । वै । वी॒र्य᳚म् । पृ॒ष्ठानि॑ । प॒शवः॑ ।