सु॑व॒र्गं ॅलो॒कं ॅय॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं ॅलो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ् ष॑ड॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर॑ ऋ॒द्ध्वोत् ति॑ष्ठन्ति त्रि॒वृतोऽधि॑ त्रि॒वृत॒मुप॑ यन्ति॒ स्तोमा॑नाꣳ॒॒ संप॑त्त्यै प्रभ॒वाय॒ ज्योति॑रग्निष्टो॒मो भ॑वत्य॒यं ॅवाव स क्षयो॒ऽस्मादे॒व तेन॒ क्षया॒न्न य॑न्ति चतुर्विꣳशतिरा॒त्रो भ॑वति॒ चतु॑र्विꣳशतिरर्द्धमा॒साः सं॑ॅवथ्स॒रः ( ) सं॑ॅवथ्स॒रः सु॑व॒र्गो लो॒कः सं॑ॅवथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑र्विꣳशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धते ऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥
पदपाठः (Word-by-word)
सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । परा᳚ञ्चः । वै । ए॒ते । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । ये । प॒रा॒चीना॑नि । पृ॒ष्ठानि॑ । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । प्र॒त्यङ् । ष॒ड॒ह इति॑ षट् - अ॒हः । भ॒व॒ति॒ । प्र॒त्यव॑रूढ्या॒ इति॑ प्रति - अव॑रूढ्यै । अथो॒ इति॑ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । उ॒भयोः᳚ । लो॒कयोः᳚ । ऋ॒द्ध्वा । उदिति॑ । ति॒ष्ठ॒न्ति॒ । त्रि॒वृत॒ इति॑ त्रि - वृतः॑ । अधीति॑ । त्रि॒वृत॒मिति॑ त्रि - वृत᳚म् । उपेति॑ । य॒न्ति॒ । स्तोमा॑नाम् । संप॑त्त्या॒ इति॒ सं - प॒त्त्यै॒ । प्र॒भ॒वायेति॑ प्र - भ॒वाय॑ । ज्योतिः॑ । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि-स्तो॒मः । भ॒व॒ति॒ । अ॒यम् । वाव । सः । क्षयः॑ । अ॒स्मात् । ए॒व । तेन॑ । क्षया᳚त् । न । य॒न्ति॒ । च॒तु॒र्विꣳ॒॒श॒ति॒रा॒त्र इति॑ चतुर्विꣳशति-रा॒त्रः । भ॒व॒ति॒ । चतु॑र्विꣳशति॒रिति॒ चतुः॑-विꣳ॒॒श॒तिः॒ । अ॒द्र्ध॒मा॒सा इत्य॑द्र्ध - मा॒साः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः ( ) । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सु॒व॒र्ग इति॑ सुवः - गः । लो॒कः । सं॒ॅव॒थ्स॒र इति॑ सं-व॒थ्स॒रे । ए॒व । सु॒व॒र्ग इति॑ सुवः - गे । लो॒के । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अथो॒ इति॑ । चतु॑र्विꣳशत्यक्ष॒रेति॒ चत॑र्विꣳशति- अ॒क्ष॒रा॒ । गा॒य॒त्री । गा॒य॒त्री । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । गा॒य॒त्रि॒या । ए॒व । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अवेति॑ । रु॒न्ध॒ते॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । ब्र॒ह्म॒व॒र्च॒स्येति॑ ब्रह्म - व॒र्च॒सस्य॑ । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥