-र्वन॒स्पती᳚न् प्र॒जां प॒शून् तेना॑वर्द्धत॒ सा जे॒मानं॑ महि॒मान॑-मगच्छ॒द्य ए॒वं ॅवि॒द्वाꣳस॑ ए॒ता आस॑ते वि॒राज॑मे॒वाऽऽ*त्मन् धि॒त्वाऽन्नाद्य॒मव॑ रुन्धते॒ वर्द्ध॑न्ते प्र॒जया॑ प॒शुभि॑र्जे॒मानं॑ महि॒मानं॑ गच्छन्ति॒ ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड् वा ऋ॒तवः॒ षट् पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वा-रो॑हन्त्यृ॒तुभिः॑ संॅवथ्स॒रं ते सं॑ॅवथ्स॒र ए॒व - [ ]
पदपाठः (Word-by-word)
वन॒स्पतीन्॑ । प्र॒जामिति॑ प्र - जाम् । प॒शून् । तेन॑ । अ॒व॒द्र्ध॒त॒ । सा । जे॒मान᳚म् । म॒हि॒मान᳚म् । अ॒ग॒च्छ॒त् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ए॒ताः । आस॑ते । वि॒राज॒मिति॑ वि-राज᳚म् । ए॒व । आ॒त्मन्न् । धि॒त्वा । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । अवेति॑ । रु॒न्ध॒ते॒ । वद्र्ध॑न्ते । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । जे॒मान᳚म् । म॒हि॒मान᳚म् । ग॒च्छ॒न्ति॒ । ज्योतिः॑ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । भ॒व॒ति॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । पृष्ठ्यः॑ । ष॒ड॒ह इति॑ षट् - अ॒हः । भ॒व॒ति॒ । षट् । वै । ऋ॒तवः॑ । षट् । पृ॒ष्ठानि॑ । पृ॒ष्ठैः । ए॒व । ऋ॒तून् । अ॒न्वारो॑ह॒न्तीत्य॑नु - आरो॑हन्ति । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । ते । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । ए॒व ।