दे॒वता॑ अ॒भ्यारो॑हन्ति त्रयस्त्रिꣳ॒॒शात् त्र॑यस्त्रिꣳ॒॒शमुप॑ यन्ति॒ त्रय॑स्त्रिꣳश॒द्वै दे॒वता॑ दे॒वता᳚स्वे॒व प्रति॑ तिष्ठन्ति त्रिण॒वो भ॑वती॒मे वै लो॒कास्त्रि॑ण॒व ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ द्वावे॑कविꣳ॒॒शौ भ॑वतः॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वाऽऽ*त्मन् द॑धते ब॒हवः॑ षोड॒शिनो॑ भवन्ति॒ तस्मा᳚द्-ब॒हवः॑ प्र॒जासु॒ वृषा॑णो॒ यदे॒ते स्तोमा॒ व्यति॑षक्ता॒ भव॑न्ति॒ तस्मा॑दि॒य -मोष॑धीभि॒-र्वन॒स्पति॑भि॒-र्व्यति॑षक्ता॒ - [ ]
पदपाठः (Word-by-word)
दे॒वताः᳚ । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । त्र॒य॒स्त्रिꣳ॒॒शादिति॑ त्रयः - त्रिꣳ॒॒शात् । त्र॒य॒स्त्रिꣳ॒॒शमिति॑ त्रय - त्रिꣳ॒॒शम् । उपेति॑ । य॒न्ति॒ । त्रय॑स्त्रिꣳश॒दिति॒ त्रयः॑ - त्रिꣳ॒॒श॒त् । वै । दे॒वताः᳚ । दे॒वता॑सु । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । त्रि॒ण॒व इति॑ त्रि - न॒वः । भ॒व॒ति॒ । इ॒मे । वै । लो॒काः । त्रि॒ण॒व इति॑ त्रि - न॒वः । ए॒षु । ए॒व । लो॒केषु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । द्वौ । ए॒क॒विꣳ॒॒शावित्ये॑क - विꣳ॒॒शौ । भ॒व॒तः॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । अथो॒ इति॑ । रुच᳚म् । ए॒व । आ॒त्मन्न् । द॒ध॒ते॒ । ब॒हवः॑ । षो॒ड॒शिनः॑ । भ॒व॒न्ति॒ । तस्मा᳚त् । ब॒हवः॑ । प्र॒जास्विति॑ प्र - जासु॑ । वृषा॑णः । यत् । ए॒ते । स्तोमाः᳚ । व्यति॑षक्ता॒ इति॑ वि - अति॑षक्ताः । भव॑न्ति । तस्मा᳚त् । इ॒यम् । ओष॑धीभि॒रित्योष॑धि - भिः॒ । वन॒स्पति॑भि॒रिति॒ वन॒स्पति॑ - भिः॒ । व्यति॑ष॒क्तेति॑ वि - अति॑षक्ता ।