व्यति॑षज्यन्ते प्र॒जया॑ प॒शुभि॒र्य ए॒वं ॅवि॒द्वाꣳस॑ ए॒ता आस॒ते ऽक्लृ॑प्ता॒ वा ए॒ते सु॑व॒र्गं ॅलो॒कं ॅय॑न्त्युच्चाव॒चान् हि स्तोमा॑नुप॒यन्ति॒ यदे॒त ऊ॒र्द्ध्वाः क्लृ॒प्ताः स्तोमा॒ भव॑न्ति क्लृ॒प्ता ए॒व सु॑व॒र्गं ॅलो॒कं ॅय॑न्त्यु॒भयो॑रे॒भ्यो लो॒कयोः᳚ कल्पते त्रिꣳ॒॒शदे॒तास्त्रिꣳ॒॒शद॑क्षरा वि॒राडन्नं॑ वि॒राड् वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते ऽतिरा॒त्राव॒भितो॑ भवतो॒ ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥
पदपाठः (Word-by-word)
व्यति॑षज्यन्त॒ इति॑ वि - अति॑षज्यन्ते । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ए॒ताः । आस॑ते । अक्लृ॑प्ताः । वै । ए॒ते । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । उ॒च्चा॒व॒चान् । हि । स्तोमान्॑ । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । यत् । ए॒ते । ऊ॒द्र्ध्वाः । क्लृ॒प्ताः । स्तोमाः᳚ । भव॑न्ति । क्लृ॒प्ताः । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । उ॒भयोः᳚ । ए॒भ्यः॒ । लो॒कयोः᳚ । क॒ल्प॒ते॒ । त्रिꣳ॒॒शत् । ए॒ताः । त्रिꣳ॒॒शद॑क्ष॒रेति॑ त्रिꣳ॒॒शत् - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजेति॑ वि - राजा᳚ । ए॒व । अ॒न्नाद्य॒मित्य॑न्न-अद्य᳚म् । अवेति॑ । रु॒न्ध॒ते॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥